पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४१
द्वाविंशोऽध्यायः।।।।

सोपपीठमधिष्ठानं केवलं वा मसूरकम् ।
स्वस्तिकाकारसंयुक्तं नासिकाभिरलकृतम् ॥ ३३ ॥
पूर्ववत् तुङ्गभागं स्यादेतन्नाम्ना जयावहम् ।
नवपतिकरव्यासे दशभागविभाजिते ॥ ३४ ॥
गर्भगेहं चतुर्भागं गृहपिण्डिस्तदंशके ।
अन्धारमंशमंशेन परितः खण्डहर्म्यकम् ॥ ३५॥
कूटकोष्ठकनीडानां तारमंशेन योजयेत् ।
कोष्ठकं द्विगुणायाम हारा भागसमन्विता ॥ ३६॥
पञ्चांशे सौष्ठिकव्यासे मध्ये द्वयंशेन विस्तरम् ।
एकभागविनिष्क्रान्तयुग्मस्तम्भसमन्वितम् ॥ ३७॥
सोपपीठमधिष्ठानं समञ्चं सवितर्दिकम् ।
सकन्धरशिरोयुक्तं सर्वालङ्कारसंयुतम् ॥ ३८ ॥
पादुकोत्तरयोर्मध्ये नवांशेनोपपीठकम् ।
मसूरकं द्विभागोच्चं द्विगुणं स्तम्भदैर्घ्यकम् ॥ ३९ ॥
सार्धाशं प्रस्तरोत्सेधम(शं वेदिकोदयम् ।
उत्तरादिकपोतान्तं गलोदयमितीरितम् ॥ ४० ॥
पञ्जराकृतिसंयुक्तं कपोतात् तु विनिर्गतम्।
यथाशोभं यथायुक्ति तथा शक्तिध्वजान्वितम् ॥ ४१ ॥
कपोतपञ्जरं ह्येतत् प्रासादे सार्वदेशिके ।
हारायां वाथ शालायां मध्ये मध्ये तु योजयेत् ॥ ४२॥
कूटकोष्ठकनीडं चैवान्तरप्रस्तरान्वितम् ।
जलस्थलं विहायोर्श्वभूमावष्टांशसौष्टिकम् ॥ ४३ ॥