पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४०
मयमते।।।

अष्टाश्रं कर्णकूटं स्यात् कोष्ठकं करीकृतम् ।
महाशिखरमष्टाश्रमष्टनास्था विभूषितम् ॥ २२ ॥
कूटकोष्ठकनीडानां संख्यायां पूर्ववत् ततिः ।
अस्याप्युत्सेधभागं च पूर्ववत् परिकल्पयेत् ॥ २३ ॥
भद्रकोष्ठमिदं नाम्ना वेदभौमं दिवौकसाम् ।
सप्तदशकरव्यासं दशभागैर्विभाजयेत् ॥ २४ ॥
नालीगृहं चतुर्भागमंशेनान्धारिका भवेत् ।
अलिन्द्रमंशमंशेन परितः खण्डहर्म्यकम् ॥ २५ ॥
कूटं कोष्ठं च नीडं च भागेन परिकल्पयेत् ।
कोष्ठायाम द्विभागं स्याच्छेषं हारा सपञ्जरम् ॥ २६ ॥
जलस्थलं विहायोद्धे वसुभागैविभाजिते ।
भागेन कूटविस्तार कोष्ठकं द्विगुणायतम् ।। २७॥
हारान्तरे तथांशेन लम्बपञ्जरमीरितम् ।
तदूर्ध्वं रसभागे तु भागं सौष्ठिकविस्तृतम् ॥ २८ ॥
द्विभागं कोष्ठकायामं हारायां क्षुद्रपञ्जरम् ।
तदूर्ध्वं तु त्रिभागेन मध्ये दण्डेन निर्गमम् ॥ २९ ॥
चतुरश्रमधिष्ठानमष्टाधे गलमस्तकम् ।
त्रिचतुष्कोष्ठकं तावत् सौष्ठिकं चाष्टपञ्जरम् ॥३०॥
लम्बपञ्जरमष्टौ हि क्षुद्रनीडं हिरष्टकम् । ।
गलनास्यष्टसंयुक्तं कोष्ठकं किञ्चिदुन्नतम् ॥ ३२॥
नानामसूरकस्तम्भवेदीजालकतोरणम् ।
नानालङ्कारसंयुक्तं नानाचित्रैर्विचित्रितम् ॥ ३२॥