पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३९
द्वाविंशोऽध्यायः।।।।

 रविसंख्या भवेत् सौष्ठी कोष्ठं तावत् तु पञ्जरम् ।
 शिखरे देवनास्यः स्युश्वाल्पनास्या विभूषितम् ॥ ११॥
 स्वस्तिकाकारसंयुक्तं नासिकाभिरलङ्कतम् ।
 प्राग्वदेव तलं चाधः स्तम्भालङ्कारतोरणम् ॥ १२॥
 सर्वालङ्कारसंयुक्तमेतद्ययं सुभद्रकम् ।
सर्व प्राग्वत् कूटकोष्ठादि युक्त्या मध्ये मध्ये मस्तकं मण्डलाभम्।
वृत्ताकारं स्यात् सभानां शिरस्तद्विस्तारार्धनान्वितं गर्भगेहम् ॥
शेषं त्र्यंशेनावृतावासपिण्डिस्तत्तुल्यं तबाह्यतोऽन्धारहारम् ।
नानाधिष्ठानाधिवेद्यादियोगं नाम्नेदं स्याच्छ्रीविशालं सुहृष्टम्॥
 पञ्चदशकरव्यासं नवधा विभजेत् कमात् ॥ १५॥
 गर्भगेहं त्रिभागैकं गृहपिण्ड्यस्तदंशकम् ।
 अंशेन परितोऽलिन्द्रं खण्डहवें तथांशकम् ॥ १६ ॥
 सभा शाला तथा नीडं भागेनैकेन विस्तरात् ।
 विस्तारत्रिगुणायामा स्वव्याससमनिर्गमा ॥ १७ ॥
 शालामध्ये महानासी भागतत्या विनिर्गता।
 सभाकोष्ठ(क)नीडानामन्तरेऽर्धेन हारकम् ॥ १८ ॥
 तदुपर्यष्टभागेन विभजेत् कूटमंशकम् ।
 कोष्ठकस्य तु विस्तारं तदेव द्विगुणायतम् ॥ १९॥ .
 कूटशालान्तरे नीडमंशेन परिकल्पयेत् ।
 तदूर्वे रसभागे तु कूटमंशेन कोष्ठकम् ॥ २० ॥
 विस्तारद्विगुणायाममन्तरेऽर्धन पञ्जरम् ।
 ऊर्ध्वभूमे चतुर्भागे मध्ये दण्डेन निर्गमम् ॥ २१ ॥