पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३८
मयमते।।।

अथ द्वाविंशोऽध्यायः ।

पञ्चमानं चतुर्भीमं वक्ष्ये संक्षेपतः क्रमात् ।
त्रिचतुष्पनिहस्तादिद्विद्विहस्तविवर्धनात् ॥ १॥
एकहाविंशदन्तं तु व्यासतुङ्गं तु पूर्ववत् ।
विस्तारोत्सेधमानाभ्यां भागान् वक्ष्यामि हर्म्यके ॥२॥
त्रयोदशकरव्यासमष्टधा विभजेत् समम् ।
एकांशं कूटविस्तारं शालायाम द्विभागिकम् ॥ ३ ॥
भागेन पञ्जरव्यासमूचे तु पुनरष्टधा ।
प्राग्वदेव सभाशालापञ्जराणामुपर्यपि ॥ ४॥
ऊर्ध्वं षड्भागिके भागमेकं कूटस्य विस्तृतम् ।
द्विभागं कोष्ठकायामं नीडं (प्रा ? भा)गार्धमिष्यते ॥५॥
तदूर्वे गुणभागेंऽशं मध्ये दण्डेन निर्गमम् ।
उत्सेधं विभजेद् विद्वान् नवत्रिंशतिसङ्ख्यया ॥ ६ ॥
सार्धद्वयंशमधिष्ठानं पञ्चांशं पाददैर्ध्यकम् ।
तदर्ध प्रस्तरोत्सेधं सत्रिपादयुगांशकम् ॥ ७ ॥
ऊर्ध्वभूम्यज्रिकोत्सेधं सपादद्वयंशमञ्चकम् ।
जङ्घा तद्विगुणा चोर्ध्वं दयंशेन प्रस्तरोद्यम् ॥ ८ ॥
पादाधिकचतुर्भागमुपरिस्तम्भतुङ्गकम् ।
स्यात् सत्रिभागपादेन प्रस्तरं वेदिकांशकम् ॥ ९॥
गलोच्चमश्विनीभागं सार्धवेदैस्तु मूर्धनि ।
शेषभागं शिखामानमाभोगं चतुरश्रकम् ॥ १०॥