द्विदण्डाद्याः सप्तदण्डात् सोपानस्य विशालतः (?)।
अश्वपादस्य विस्तारो द्विगुणाद्यश्चतुर्गुणात् ॥ ९० ॥
शयितव्यासपादार्धत्रिपादांशं दृशोदयैः ।
स्थितानीभबालवृद्धसमखण्डान्यनुक्रमात् ॥ ९१॥
शयानफलकव्यासः षोडशाष्टादशाङ्गुलाः ।
समुद्गतं षडंशैकमेवं सोपानकल्पनम् ॥ ९२ ॥
हस्तव्यासं द्विदण्डं तत्पादव्यासं तु बाहलम् ।
हस्ते यथाबलं योज्यं प्रवशेस्थितशायिनोः ॥ ९३ ॥
अयुग्ममेव सोपानं गुह्यागुह्यवशात् ततः ।
एकभक्तिविनिष्क्रान्तं मण्डपादिषु बाह्यतः ।। ९४ ॥
सोपानं सर्ववर्णानां प्रादक्षिण्याधिरोहणम् ।
प्रशस्तं विपरीतं तद् विनाशाय भवेदिह ॥ ९५ ॥
अधिष्ठानादिरोहार्थ सोपानं पार्श्वयोर्मुखम् ।
हस्तिहस्तं चाश्वपादफलकान्तं प्रयोजयेत् ॥ ९६ ॥
सोपानं तदाधिष्ठानस्तम्भप्रस्तरवद् भवेत् ।
एवं विधिविशिष्टं तु सोपानं सम्पदां पदम् ॥ ९७ ॥
एवं प्रोक्तं तैतिलानां नराणां वासे योग्यं तोरणं चैव युक्त्या ॥
सोपानं तद्भेदमाकारमस्मिन् सम्यग् योज्यं वास्तुविद्याविधिज्ञैः।
स्यान्नागरं द्राविडवेसरं च क्रमेण वै सत्त्वरजस्तमांसि ।
महीसुरोर्वीपतिवैश्यकास्ते हरिर्विधाता हर आधिदेवाः ॥९९ ।।
|
इति मयमते वस्तुशास्त्रे त्रिभूमिविधानो नाम