पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४५
द्वाविंशोऽध्यायः।।।।

यथाशोभमलङ्कारं तथा युञ्जीत बुद्धिमान्।
युग्महस्तैरयुग्मैर्वा योजयेदेवमिच्छया ॥ ७१ ॥
युग्मांशे यंशकं वापि कूटव्यासं हिरायतम् ।
शालायाश्चतुरंशैर्वा युग्मे युग्मांशकैर्विदुः ।। ७२ ॥
नानाभागैरलङ्कारैरन्यैरुक्तं मुनीश्वरैः ।
तथा वा तत्र युञ्जीयात् प्राज्ञः शिल्पिषु बुद्धिमान् ॥
तलमेकं भवेद् ग्रासं खण्डहर्म्य चतुःस्थले ।
हितलं पञ्चषट्सप्तभूमावेव विधीयते ॥ ७४ ॥
त्रितलं चाष्टभूमे तु नन्दपतितले तथा ।
पञ्चभौमं चतुर्भामं द्वादशैकादशे तले ॥ ७५ ॥
मूलतः कूटकोष्ठादीन् यः कर्तुं सम्यगीहते ।
तले तले विभागांश्च यथायुक्त्या प्रयोजयेत् ॥ ७६ ॥
कूटकोष्ठादिसर्वाङ्गमुपर्युपरि पूर्ववत् ।
कूटकोष्ठकनीडाद्यर्भेदैराख्या यथोदिता ।। ७७ ॥
पूर्व तैर्भेदकैयुक्तस्याख्या धाम्नस्तथा भवेत् ।
आ द्वादशतलादेवं युञ्जीयाद् हितलादितः ॥ ७८ ॥
कर्णे मध्ये तयोर्मध्ये कूटं कोठं च पञ्जरम् ।
कर्तव्यं मानसूत्रात्तु तेषां निर्गममुच्यते ॥ ७९ ॥
खव्यासार्ध तथार्धाध दण्डं वा(पि ? द्वि)त्रिदण्डकम् ।
अन्तर्विन्यासदेशं तु मानसूत्रं न योजयेत् ॥ ८ ॥
ऋजु सूत्रप्रमाणान्तं तद्भङ्गे विपदा पदम् ।
तस्मात् कूटादिसर्वाङ्गं मानसूत्राद् बहिर्नयेत् ॥ ८१ ॥