पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३४
मयमते।।।

उन्नती कूटकोष्ठौ चेदन्तरप्रस्तरान्वितौ ।
एतद् गान्धारमित्युक्तमष्टाध वा गलं शिरः॥ ५९॥
तदेव वर्तुलं वेदी कन्धरं शिखरं भवेत् ।
शेषं पूर्ववदुद्दिष्टं नाम्ना श्रीभोगमिष्यते ॥ ६॥
वृत्ते वृत्तायते व्यश्रवृत्तेऽष्टाश्रे षडश्रके ।
कूटकोष्ठकनीडानामुपयुपरि च क्रमात् ॥ ६१ ॥
कूटकोष्ठकनीडैश्च मण्डितं खण्डहर्म्यके ।
ऋजुभागविशालात् तु द्यश्रवृत्ते तु वर्तुले ॥ ६२ ।।
भागं किञ्चिद् भवेन्न्यूनं भागं सर्व समं तु वा ।
अष्टांशोनदशांशोनमूाशं वाप्यधोंशकात्॥ २३ ॥
यथा शोभाबलावाप्तिस्तथा युञ्जीत बुद्धिमान् ।
अर्पितानर्पितं चैव प्रासादं द्विविधं भवेत् ॥ ६४ ।।
अर्पितं न च सालिन्द्रमनर्पितमलिन्द्रभाक् ।
एवमल्पक्रम सर्व योजयेत् तद् विचक्षणः ॥१५॥
 गुणशरमुनिनन्दैकादशैकाधिका:-
  स्तिथिमुनिदशभागे हर्म्यतारे कृतेऽस्मिन् ।
 शशिगुणयु(ग)बाणैः षड्यमीनागनन्दैः
  स्वभवनविपुलस्यान नालीगृहं स्यात् ॥ १६ ॥
 हाङ्गानां कूटकोष्ठादिकानां
  ग्रीवाधस्ताद् वेदिका योजनीया ।
 हाराभागे वेदिकावेदिका वा
  नीडं वा (त)त्राल्पनासं च कुर्यात् ॥ ६७ ॥