पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३५
एकविंशोऽध्यायः।।।।

तोरणं त्रिविधं पत्रतोरणं मकरान्वितम् ।
चित्रतोरणमित्येषां मण्डनं त्वधुनोच्यते ॥१८॥
बालचन्द्रनिभं पश्चित्रितं पत्रतोरणम् ।
द्वयोर्मकरयोर्वक्रसितमध्यमपूरितम् ॥ ६९ ॥
नानाविधलतायुक्तमेतन्मकरतोरणम् ।
तदेव पार्श्वयोर्मध्यं पूरिमध्यं द्वयोस्ततः ॥ ७० ॥
नक्रतुण्डं प्रगृह्मैव द्वयोरास्यविनिर्गतैः ।
विद्याधरैश्च भूतैश्च सिंहालैश्च हंसकैः ॥ ७१ ॥
बालैः स्रग्दामकैरन्यैर्मणिबन्धैर्विचित्रितम् ।
चित्रतोरणमेतत् स्याद् देवानां भूभुजां वरम् ॥ ७२ ॥
गुहामु प्रतिमास्तासु पार्श्वपादयुतानि च ।
तोरणान्युत्तराधस्तात् प्रयोज्यानि विचक्षणैः ।। ७३ ॥
स्तम्भोश्चे पञ्चषट्सप्तड्यंशोच्चं तोरणाग्रकम् ।
शेषं पादोदयं पादं चतुरष्टाश्रवृत्तयुक् ॥ ७४ ॥
कुम्भमण्ड्यादिसंयुक्तं पोतिकारहितं तु वा ।
उत्तरं वाजनं साब्जक्षेपणं क्षुद्रवाजनम् ॥ ७५ ॥
पोतिकोपरि वा कुर्याद् वीरकाण्डस्य चोपरि ।
उत्सन्ध्यन्तानताग्रं तु कुर्यान्मकरविष्टरम् ॥ ७६ ॥
तुङ्गार्धं त्रिचतुष्पञ्चदण्डतोरणविस्तृतम् ।
द्वारतुल्योन्नतं व्यासान्तरं स्तम्भद्वयोरपि ॥ ७७॥
उत्तरोत्तर(सं ?)युक्ताष्टमङ्गलोर्ध्वस्थनक्रवत् ।
फलकं पञ्चवक्त्रं तु तदूचे शूलसंयुतम् ॥ ७८ ॥