पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३३
एकविंशोऽध्यायः।।।।

भद्रकोष्ठमिदं नाम्ना यथार्थ परिकीर्तितम् ।
तदेव वर्तुलं कर्णकूटमूोर्ध्वभूमिके ॥ ४८ ॥
मस्तकं तस्य वृत्तं स्याच्चतुनीसीसमन्वितम् ।
वृत्तकूटमिदं नाम्ना देवानां सार्वदेशिकम् ॥ ४९ ॥
तदेवाष्टांशमाधिक्यमायतं चतुरश्रकम् ।
कर्णकूटं युगाणं स्यादायतं वृत्तमस्तकम् ॥ ५० ॥
कोष्ठभद्रं विना तत्र शेषं पूर्ववदाचरेत् ।
स्तूपित्रयसमायुक्तमेतन्नाम्ना सुमङ्गलम् ॥ ५१ ॥
पश्चादशकरव्यासं पङ्क्त्यंशेन विभाजयेत् ।
गर्भगेहं चतुर्भागमन्धार्यशेन योजिता ॥ ५२ ॥
अलिन्द्रमंशमंशेन खण्डहवें बहिः क्रमात् ।
कणे मध्येऽन्तरे कार्य कुटं कोष्ठं च पञ्जरम् ॥ ५३ ॥
भागेन कोष्ठकायाम द्विगुणं संमतं बुधैः ।
उर्ध्वभूमौ रसांशे तु भागं सौष्ठिकविस्तृतम् ॥ ५४ ।
कोष्ठकं द्विगुणायामं हारा भागेन योजयेत् ।
तदूचे तु चतुर्भागं द्विभागं मध्यनिर्गमम् ॥ ५५ ॥
दण्डं वाध्यर्धदण्डं वा द्विदण्डं वा विशेषतः ।
चतुरश्रमधिष्ठानं तहत कन्धरमस्तकम् ॥ ५ ॥
अष्टकूटं तथा नीडं कोष्ठकं तु तथैव च ।
लम्बनीडमुपर्यष्टौ वर्षस्थलसमन्वितम् ॥ ५७ ।।
नासिका स्वस्तिकाकारा सर्वत्र परिशोभिता ।
नानामसूरकस्तम्भवेदीजालकतोरणम् ॥ ५८ ॥