पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३२
मयमते।।।

सायतं घ्यश्रवृत्तं स्याद् वेदिकागलमस्तकम् ।
कूटकोष्ठादि सर्वाङ्गं पूर्ववत् परिकल्पयेत् ॥ ३७॥
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कतम् ।
पादोपरि भवेन्नासी स्वस्तिबन्धनशोभिता ॥ ३८ ॥
यथा बलं यथा योगं तथा कुर्याद् विचक्षणः ।
एतदप्युदितं सौधं गजपृष्ठं पुरातनैः ॥ ३९ ॥
युग्मेऽप्येवं प्रयुञ्जीयात् सर्वहवें विचक्षणैः ।
त्रयोदशकरव्यासं नवधा विभजेत् समम् ॥ ४० ॥
गर्भगेहं त्रिभागेन गृहपिण्डिस्तु भोगतः ।
अन्धारमंशमंशेन प(ति?रि)तोऽन्धारिका भवेत् ॥४१॥
मंशेन सौष्टिकं कोष्ठं विस्तारं त्रिगुणायतम् ।
अर्धन नीडविस्तारं शेषं हाराङ्गमिष्यते ॥ ४२ ॥
कोष्ठमध्ये त्रिदण्डेन नासी निर्गमनान्विता ।
उपर्यपि षडंशेऽशं कूटं तद्विगुणायतम् ॥ ४३ ॥
कोष्ठकं भागतो हारा पञ्जरैरन्विता भवेत् ।
ऊर्ध्वभागं त्रिभागेन मध्ये दण्डेन निर्गमम् ॥ ४४ ।
चतुरश्रमधिष्ठानं वस्वथ गलमस्तकम् ।
आदौ तले चतुष्कण्ठे कुटं वेदाश्रमस्तकम् ॥ ४५ ॥
अष्टाश्रमूर्ध्वभूमौ तु सौष्ठिकानां तु मस्तकम् ।
अष्टकूटं तथा नीडं कोष्ठकं तु तथैव हि ॥ ४६ ॥
क्षुद्रनीडं तथाप्यष्टावष्टौ स्युगलनासिकाः ।
स्वस्तिकाकारसंयुक्तं नासिकाभूषणं भवेत् ॥ ४७ ॥