पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३१
एकविंशोऽध्यायः।।।।

 अष्टकूटं तथा कोष्ठं नीडं द्वादश चैव हि ।
 हारायां क्षुद्रनीडं स्यादर्कद्विगुणसङ्ख्यया ॥ २७ ॥
 नानामसूरकस्तम्भवेदिकाद्यैरलङ्कतम् ।
 सोपपीठमधिष्ठानं केवलं वा मसूरकम् ॥ २८ ॥
 हस्तिपृष्ठमिदं नाम्ना सर्वदेवेषु योग्यकम् ।
 पादोच्चत्रिहिभागोच्चं पादं सर्वाङ्गसंयुतम् ॥ २९ ॥
 पोतिकारहितं वीरकाण्डोपरि समण्डितम् ।
 उत्तरं वाजनं साब्जक्षेपणं निम्नवाजनम् ॥ ३० ॥
 तदूचे झषकाण्डं स्यान्नानापत्रैर्विचित्रितम् ।।
 तोरणाकृतिसंयुक्तं मृणाल्यन्वितकन्धरम् ॥ ३१॥
 सर्वालकारसंयुक्तं स्तम्भतोरणमीरितम् ।
 पादान्तरे वा हारायां कर्णप्रासादमध्यमे ॥ ३२॥
 शालामध्येऽन्तराले तु कुर्यात् सर्वेषु धामसु ।
स्तम्भे सर्वाङ्गयुक्ते समतलमुभयोः पार्श्वयोर्वीरकाण्ड-
स्याग्रे न्यस्तोत्तरं वाजनमुपरि दलं क्षेपणं तोरणाग्रम् ।
नकैः पत्रादिभिर्यद् विरचितमथ (तद्) धाम्नि वा मण्डपे वा
शालायामन्यवस्तुष्वभिमतमयुतस्तम्भयुक् तोरणं स्यात् ।।
 तदेव चतुरश्राभमायतं तन्मसूरकम् ॥ ३४ ॥
 विस्तारमष्टभागं स्यादायामं दशभागभाक् ।
 कूटकोष्ठकनीडं च भा(गो? गेनो)परि कल्पयेत् ॥ ३५ ॥
 हाराभागं तु भागेन षडंशं चोर्धभूमिके ।
 तदूर्श्वे तु चतुर्भागमायामे यंशमाधिकम् ॥ ३६॥