पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२०
मयमते।।।

नीडस्य तावदुदयं च विशालम -
 मूलात् त्रिपादविपुलं तलिपं तयोश्च ।
हारान्तरे सदनमध्यपदे च कूटे
 कोष्ठे . तोरणमलङ्कृतमेव कुर्यात् ॥ ३७ ॥
हारस्योभयपार्श्वे (सा? हा)रसमीपे तु वाथ पदमध्ये ।
द्वारपवासगुहा स्यादुत्तरमण्डान्तकं तु वो(च्य?च्च) तत् ॥
खण्डान्तपोतिकान्तं तोरणमात्रोदयं तु वा कथितम् ।
युक्त्या प्रवेशयुक्त्या सर्वस्मिन् धाम्नि कर्तव्याः ॥ ३९ ॥

इति मयमते वस्तुशास्त्रे द्विभूमिविधानं नाम

विंशोऽध्यायः।


अथ एकविंशोऽध्यायः।

त्रितलं पश्चधामानं सक्षपाद् वक्ष्यतेऽधुना ।
सप्ताष्टहस्तमारभ्य द्विद्विहस्तविवर्धनात् ॥ १ ॥
पञ्चदशविकारान्तं व्यासतुङ्गं तु पूर्ववत् ।
सप्ताष्टनन्दहस्ते तु सप्ताष्टांशैर्विभाजिते ॥ २ ॥
भागेन कूटविस्तारं कोष्ठहित्रिगुणायतम् ।
लम्बपञ्जरम(शं हाराभागं तु तत्समम् ॥ ३ ॥
ऊर्श्वभूमौ पडंशेऽशं कूटं तद्विगुणायतम् ।
कोष्ठकं चान्तरे हारं भागेनैव प्रकल्पयेत् ॥ ४ ॥
ऊर्ध्वभूमौ त्रिभागेन मध्ये भद्रं विधीयते ।
दण्डं सार्ध द्विदण्डं वा भद्रं तत् कारयेद् बुधः ॥ ५ ॥