पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२७
विंशोऽध्यायः।।।।

शेषं पूर्ववदुद्दिष्टमिष्टमीश्वरकान्तकम् ।
तदेव चतुरथ स्याद् गर्भगेहं मसूरकम् ॥ २८ ॥
वर्तुलं जन्मतः स्थूपिकान्तं चेद् वृत्तहर्म्यकम् ।
आयताश्रमधिष्ठानं षडयं कन्धरं शिरः॥ २९ ॥
तदेव पूर्ववत् सर्व नाम्ना कुबेरकान्तकम् ।
मानं पञ्चविधं धाम्नां भेदं पञ्चदशैव हि ॥ ३० ॥
द्वितलानां यथा प्रोक्तं तथा कुर्याद् विचक्षणः ।
सञ्चितासञ्चितं चैवोपसञ्चितमिति त्रिधा ॥ ३१ ॥
स्त्रीपुन्नपुंसकं चैव त्रिविधं तत् प्रवक्ष्यते ।
इष्टकाभिः शिलाभिर्वा सञ्चितं यद् धनीकृतम् ॥ ३२॥
कपोतादिशिरोयुक्तं तत्तत् पुंस्त्वं समीरितम् ।
ऐष्टकं दारुजं सौधं भोगयुक्तागसंयुतम् ॥ ३३ ॥
स्त्रीत्वं ह्यसञ्चितं भोगाभोगयुक्तं द्रुमेष्टकैः ।
घनाधनाङ्गयुक् षण्डमुपसश्चितमिष्यते ॥ ३४ ॥
ऊर्ध्वतलपादनिजदैर्घ्य मुनिभागे
 स्थूप्युदयमेकमथ के प्रति गुणांश(क?)म् ।
ध्यशि गलमंशकवितर्दिकमधस्तात्
 खण्डभवनस्य विधिरुक्तमुरुधीभिः ॥ ३५ ॥
पादोदये दशनवाष्टविभाजिते तत्
 सप्तर्तुपश्चचरणायतभत्र भागम् ।
शेषं झपांशमुदयार्धविशालकं वा
 षट्पञ्चवेदचरणेन भवेद् विशालम् ॥ ३६ ॥