पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२६
मयमते।।।

चतुरश्रशिरोयुक्तं चतुष्कूटसमन्वितम् ।
नानाधिष्ठानसंयुक्तं षडष्टेवाल्पनासिकम् ॥१७॥
नाम्नैतत् स्वस्तिवन्धं स्यान्नाजावयवशोभितम् ।
तदेव सौष्ठिकं कोष्ठमन्तरप्रस्तरेयुतम् ॥ १८ ॥
हाराल्पपञ्जरं निम्नं नवाष्टोल्पनासिकम् ।
नानालङ्कारसंयुक्तं कल्याणमिति पठ्यते ॥ १९॥
तदेव शिखर चार्धकोष्ठकं रहितं तु चेत् ।
चतुर्नाडीसमायुक्तमेतत् पाञ्चालमिष्यते ॥ २० ॥
तदेवाष्टाश्रकं वेदीकन्धरं शिखरं घटम् ।
शिखरेऽष्टमहानासि नाम्नेतद् विष्णुकान्तकम् ॥२१॥
तदेव कूटशालानामन्तरग्रस्तरं विना ।
तच्चतुर्भागमाधिक्यमायतं चतुरश्रकम् ॥ २२ ॥
आयतार्थ तथा वेदीकन्धरं शिखरं भवेत् ।
स्थूपित्रयसमायुक्तमेतन्नाम्ना सुमङ्गलम् ॥ २३ ॥
तदेवायतवृत्तं चेद् वेदिकाकन्धरं शिरः ।
सर्वावयवसंयुक्तमेतद् गान्धारमिष्यते ॥ २४ ॥
तारादर्धाशमाधिक्यमायतं चतुरश्रकम् ।
घ्यश्रवृचशिरोयक्तं नेत्रशालामुखान्वितम् ॥ २५ ॥
हस्तिपृष्ठमिदं द्व्यश्रं वृत्तं वापि मसूरकम् ।
चतुरश्रमधिष्ठानं वृत्तं स्याद् गर्भगेहकम् ॥ २६ ॥
सर्वालङ्कारसंयुक्तमेतन्नाम्ना मनोहरम् ।
तदेव जन्माद्या कुम्भाद् वृत्तं चेति बहिर्बहिः ॥ २७ ॥