पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२५
विंशोऽध्यायः।।।।

चतुरश्रमधिष्ठानं तद्वत् कन्धरमस्तकम् ।
चतुष्कूटसमायुक्तं चतुष्कोष्ठसमन्वितम् ॥ ६ ॥
दभ्रनीडा(मुनु)पर्यष्टौ षडष्टवाल्पनासिकम् ।
शिखरं चोरुनाडीभिर्वेदसङ्ख्याभिरन्वितम् ॥७॥
हारान्तरस्य मध्ये तु कुड्यं कुम्भलतान्वितम्।
तोरणैर्वेदिकायैस्तु नानाचित्रैर्विचित्रितम् ॥ ८॥
सर्वदेवाहकं शस्तं नाम्नैतत् स्वस्तिकं भवेत् ।
तदेव सौष्ठिकं निम्नमुन्नतं कोष्ठकं यदि ॥९॥
अन्तरप्रस्तरोपेतमेतद् विपुलसुन्दरम् ।
अंशमंशत्रयं सत्रिपादांशं साध्रिभागिकम् ॥ १०॥
भागत्रयं वितध्रिप्रस्तरग्रीवमस्तकम् ।
पादोदये दशांशे तु द्वितलादिविमानके ।। ११॥
अन्तरप्रस्तरोपेतं कूटशालोन्नतं मतम् ।
तदेव कोष्ठकं निम्नं सौष्ठिकं चोन्नतं यदि ॥१२॥
अन्तरप्रस्तरोपेतमेतत् कैलासमुच्यते।
तदेव वर्तुलं वेदिकन्धरं शिखरं घटम् ॥१३॥
अष्टकूटं चतुश्शालोपेतं सप्ताष्टनासिकम् ।
कोष्ठकान्निर्गमं मध्ये द्वित्रिदण्डेन सौष्ठिकात्॥१४॥
समग्रीवाशिरोयुक्तं कूटकोष्ठकमीरितम् ।
नानाधिष्ठानसंयुक्तं नानापादरलङ्कृतम् ॥ १५॥
नाम्नैतत् पर्वतं प्रोक्तं विमानं सार्वदेशिकम् ।
तदेव शिखरे चार्धकोष्ठकं तु चतुष्टयम् ॥ १६ ॥