पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२५
एकविंशोऽध्यायः।।।।

 विमानोच्चं विशेषेण चतुर्विंशतिभाजिते ।
 पाशगङ्गाश्विनीभिस्तु सत्रिपाद्गुणांशकैः ॥ ६ ॥
 सा(शैः सार्धबन्धाशैः सपादांशार्धकांशकैः ।
 सार्वत्रिभिस्तु भागेन योजयेत् तु विचक्षणः ॥ ७॥
 धरातलमधस्तम्भमञ्चमविकमश्चकम् ।
 तलिपं प्रस्तरं वेदीकन्धरं शिखरं घटम् ॥ ८ ॥
कूटं नीडं कोष्टकं चाष्टकं तद् वेदाश्राभं जन्मतः स्थूपिकान्तम्।
ऊर्वे भूमावल्पनीडंदिरष्टाविष्टं ह्यस्मिन् षण्णवत्यल्पनासम् ॥
नानाधिष्टानाधिवेधादियोगं मूर्धन्यष्टार्ध तथादभ्रनासम् ।
कोष्ठं कूटादुन्नतं चेत् समं च शम्भोर्वासं स्वस्तिकं तत्रिभागम् ॥
 तारे सप्तनवांशे तु भागं सौष्ठिकविस्तृतम् ।
 शालाभार्ग तथा यंशं हाराभागेन कल्पयेत् ॥ ११ ॥
 अष्टकूटं तु तत्कोष्ठं द्वादशैव विधीयते ।
 अष्टौ नीडानि विंशत्तु शतमात्राल्पनासिकम् ॥ १२ ॥
 अष्टाधे मस्तकं वेदी कन्धरं चाष्टनासिकम् ।
 विमलाकृतिकं नाम्ना शम्भोर्वासं सनातनम् ॥ १३ ॥
  हस्तनवसप्ततिसप्तनवभागं
   भागततिकूटवसुकन्तुकमिवोष्ठम(?)।
  ऊर्ध्ववसुपञ्जरमथाष्टगलनासं
   विंशतिशतानु(?) विमलाकृति विमानम् ॥ १४ ॥
एकादशकरं व्यासमष्टभागैविभाजयेत् ।
तचतुर्भागमाधिक्यमायतं वृत्तमिष्यते ॥ १५ ॥