पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२०
मयमते।।।

अष्टाश्रमाकृतिर्येषां शिखरेऽपि तथैव च ।
समं त्रिपादमध वा सुखमण्डपमिष्यते ॥ ४ ॥
समं तन्मण्डपं यस्य सान्तरालं सवेशकम् ।
युग्मस्तम्भसमायुक्तं युक्त्या सर्वाङ्गशोभितम् ॥ ५॥
सार्धहस्तं द्विहस्तं वा प्रासादस्यांशमेव वा ।।
अन्तरालस्य विस्तारं द्विदण्डं तस्य वेशनम् ॥६॥
सावकाशान्तरालं चेद् द्वित्रिहस्तान्तरं तु वा ।
पार्श्वे सोपानसंयुक्तं हस्तिहस्तविभूषितम् ॥ ७ ॥
 धाम्नः कुड्यस्यार्धकं तत्सम वा
  पादोनं वा भित्तिविष्कम्भमानम् ।
 पार्श्वे चैतद् द्वित्रिदण्डैस्तु वेशं
  कुर्यादग्रे मण्डपस्यास्य धीमान् ॥ ८ ॥
 तत्युन्नतायतकरेषु च हस्तमाना-
  हीनं त्रिपादकरमर्धमथापि पादम् ।
तत्रैव बस्तुनि यथोचितमाचरेद् वै
हानि च वृद्धिकमनिन्द्यमनेकशास्त्रैः ॥ ९ ॥
विमानं भवनं हर्म्य सौधं धाम निकेतनम् ।
प्रासादं सदनं सा गेहमावासकं गृहम् ॥१०॥
आलयं निलयं वासमास्पदं वस्तु वास्तुकम् ।
क्षेत्रमायतनं वेश्म मन्दिरं धिष्ण्यकं पदम् ॥ ११ ॥
लयं क्षयमगारं च तथोदवसितं पुनः ।
स्थानमित्येवमुक्ताश्च पर्यायाख्या हि पण्डितैः ॥ १२ ॥