हर्म्यतारत्रिभागैकं भूतांशेषु गुणांशकम् ।
धातुभागे युगांशः स्याद् बाणांशं नवभागिके ॥ १३ ॥
रुद्रांशे रसभागं तु धातुत्रयोदशांशके ।
तिथ्यंशे वसुभागं तु सप्तदश नवांशकम् ॥ १४ ॥
विस्तारार्धं तु ते सर्वे नालीगृहविशालताः ।
फलिके पञ्चभागे तु युगाध पद्मविस्तृतम् ॥ १५ ॥
पद्म(रा?ता)रत्रिभागैकं कुम्भतारमिति स्मृतम् ।।
कुम्भतारत्रिभागैक कुम्भस्याधो बलग्नकम् ॥ १६ ॥
वलग्नस्य त्रिभागैकं कुम्भस्योपरि कन्धरम् ।
कन्धरत्रिगुणं पाली तबिभागेन कुड्मलम् ॥ १७ ॥
समं त्रिपादमध वा महानासीविनिर्गमम् ।
तयासत्रिचतुर्भागहीनं स्कन्धान्ततुङ्गकम् ॥ १८ ॥
शक्तिध्वजं तदर्बोच्चं त्रिपादं वा विधीयते ।
कन्धरोच्चत्रिभागैकं वेदिकोदयमीरितम् ॥ १९ ॥
सार्धदण्डं द्विदण्डं वा क्षुद्रनास्था विशालकम् ॥
पादोत्सेधे पङ्गिनन्दाष्टभागे हारोत्सेधं तत्तदेकांशहीनम् ।
विस्तारं स्यात् तत्तदुच्चार्धमानं हारं कुर्याद्धर्म्यमध्ये नृपाणाम्॥
योगव्यासं पादविष्कम्भमानं पादाधिक्यं वा तदर्ध त्रिपादम्।
बाहुल्यं स्यादुच्छ्ये वेदभागे बाह्ये साजक्षेपणं तत्रिभागैः ॥
भित्तिव्यासे द्वादशांशे तु बाह्ये
पञ्चांशान्तहारयोगस्य मध्यम् ।
तच्चान्तः स्तम्भमध्यं तयोस्त-
नमध्यं प्रोक्तं भित्तिमध्यं विधिज्ञैः॥ २२॥