पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११२
मयमते।।।

शिखरत्रिचतुर्भागावसाने वाम्बुजादधः ।
तदाद्यात् स्थूपिकायामात् कीलदैर्ध्य प्रगृह्यताम् ।।१४६॥
पूर्वमेवेष्टकास्थानं निश्छिद्रं तु दृढीकृतम् ।
तन्मध्ये नवरत्नानि विन्यसेच्च यथाक्रमम् ॥ १४७ ॥
ऐन्द्रे मरतकं विद्याद् वैडूर्य वह्निगोचरे।
इन्द्रनीलं तु याम्यायां मौक्तिकं पितरि स्मृतम् ॥ १४८॥
वारुणे स्फाटिकं विद्यान्महानीलं समीरणे ।
वज्रं तु सौम्यदेशे स्यादेशान्यां तु प्रवालकम् ॥ १४९ ॥
माणिक्यं मध्यमे भागे हाटकं च विनिक्षिपेत् ।
रसोपरसबीजैश्च धान्यान्यप्यौषधानि च ॥ १५० ॥
तदूधै स्थूपिकाकीलं स्थापयेदचलं समम् ।
तस्मात् प्रकृतिभूम्यन्तमुदाग्दिशि महाध्वजम् ॥ १५१ ॥
प्रथितं क्षोमवस्त्रैश्च कासैर्वा मनोहरैः।
लम्बयेत् तदुदक्प्राच्यौ प्रागुदग्विदिशं ततः ॥ १५२॥
संस्पृशेद् यदि सर्वेषां प्राणिनां सम्पदृहये ।
भवनं स्थूपिकीलं च पट्टैरावेष्टय शुभ्रकैः ॥ १५३ ॥
चतुर्दिक्षु चतुगोश्च सवत्साः सन्निवेशयेत् ।
द्वारालङ्करणं कुर्यात् सुविचित्राम्बरैर्नवैः॥ १५४ ॥
यजमानो विशुद्धात्मा प्रणम्य शिरसा गुरुम् ।
विमानस्थूपिकास्तम्भद्वारालङ्करणानि च ॥ १५५ ॥
वस्त्राणि धनधान्यैश्च पशूनपि सवत्सकान् ।
मुदा स्थपतये दत्त्वा शेषान् भत्त्या तु तर्पयेत्॥१५६ ॥