पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११३
अष्टादशोऽध्यायः।।।

एवं मुनिवरैः प्रोक्तं प्रासादानां तु मूर्धनि ।
हाणां गर्भसंयुक्तौ नेत्रभित्तौ तलान्तरे ॥ १५७ ॥
मण्डपे मध्यदेशे तु सभादीनामधोऽम्बुजा(म् ? त्)।
प्रासादवद् विधातव्यं गोपुराणां तु मूर्धनि ।। १५८ ॥
एवं तु विधिना सम्यक् सम्पन्नं सम्पदा पदम्।
येन यत् कर्म चारब्धमादौ तदवसानके ।। १५९ ॥
तेनैव निष्ठितं कर्म श्रीसौभाग्यायु(षे ? रे)धनम् ।
तस्याभावे तु तत्पुत्रः शिष्यो वा तं गुरुं पटे ॥१६०
लिखित्वा तन्नियोगेन सर्वकर्म समाचरेत् ।
अज्ञानात् त्वरितेनापि यद् वस्त्वन्येन भावितम् ॥ १६१॥
करोति स्वामिनं शीघ्रमन्यथेति ह निश्चयः॥
 प्रथमं कृतवान् विधिं यथावत्
  कृतवानेव करोति निष्ठितान्तम् ।
 अथ वा विधिरन्यथा भवेच्चे-
  दशुभं स्वामिनमन्यथा करोति ।।१६२ ॥
 एवं ग्रीवालङ्कृतं पुष्कराभं
  मानं मल्लानां शिखाभूषणं च ।
 युक्त्या सर्वेषां करालादिबन्धं
  प्रोक्तं सम्यक् चेष्टकाबन्धमूर्चे॥१६३॥
 खदिरसरलसालस्तम्बकाशोकवृक्षाः
  पनसतिमिसनिम्बाः सप्तपर्णाश्च सर्वे ।