पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१११
अष्टादशोऽध्यायः।।।

आराध्य गन्धपुष्पैश्च बलिं दत्त्वा यथाविधि ।
इष्टकाश्चैव कीलांश्च वेष्टयेदम्बरैः शुभैः ॥ १३५ ॥
श्वेतवस्त्रास्तरस्योर्वे न्यसेद् दर्भास्तरे शुचिः ।
स्थपतिवरवेषाव्यः शुक्लमाल्यानुलेपनः ॥ १३६ ॥
सितवस्त्रपरिच्छन्नोत्तरीयो हैममुद्रिकः ।
पीत्वा शुद्धं पयो रात्रावुपोप्याधिवसेत् सुधीः ॥ १३७ ॥
कलशस्योत्तरे पार्थे सितवस्त्रपरिस्तरे ।
ततः प्रभाते विमले नक्षत्रकरणान्विते ॥ १३८ ।।
सुमुहूर्ते सुलग्ने च स्थपतिः स्थापकेन तु ।
पुष्पकुण्डलहारादिकटकैरङ्गुलीयकैः ॥ १३९ ॥
पञ्चाङ्गभूषणैर्हेमनिर्मितैस्तु विभूषितः।
हेमयज्ञोपवीतस्तु नववस्त्रपरिच्छदः ॥ १४ ॥
श्वेतानुलेपनश्चैव सितपुष्पशिराः शुचिः।
ध्यात्वा धरातलं सर्व दिग्दिपेन्द्रसमायुतम् ॥ १४१ ॥
ससागरं सशैलेन्द्रमनन्तस्योपरि स्थितम् ।
सृष्टिस्थितिलयाधारं भुवनाधिपतिं जपेत् ॥१४२॥
स्नापयित्वेष्टकाकीलं पूर्वोक्तैः कलशोदकैः ।
आराध्य गन्धपुष्पैश्च धूपदीपसमन्वितैः॥१४३ ॥
बलिं दत्त्वा यथान्यायं जयशब्दादिमङ्गलैः ।
विप्रस्वाध्यायघोषैश्च शङ्खभर्यादिनिःस्वनैः ॥ १४४ ॥
स्थापयेदिष्टकाः सम्यक् पूर्वदक्षिणतः क्रमात् ।
शिखरार्धे विमानस्य गग्रपत्रान्तरेऽपि वा ।। १४५ ॥