पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११०
मयमते।।।

विस्तारत्रिगुणायामं व्यासोच्चं पादतः समम् ।
अभ्रमं तु यथा भूमौ पञ्चमूर्तिसमन्वितम् ॥ १२४ ॥
अथवा तच्छिखायामद्विगुणं कीलदर्घिकम् ।
स्तम्भव्यासार्धविस्तारत्रिचतुभांगमेव वा ॥ १२५ ॥
अग्रमीङ्गलव्यासं शिखिपादं यथाबलम् ।
शिखराकृतिवत् कीलं लिङ्गच्छन्दमथापि वा ॥ १२६ ॥
एवं त्रिधा समुद्दिष्टं स्थूपिकाकीलमार्यकैः ।।
सद्मनश्चोत्तरे पार्वे मण्डपे तु सुसंस्कृते ॥१२७॥
चतुष्प्रदीपसयुंक्ते वस्त्रैश्च परिवेष्टिते ।
सर्वमङ्गलसंयुक्ते शुद्धशाल्यास्तरे शुभे ।। १२८ ।।
स्थण्डिले चण्डितं कृत्वा मण्डूकं वाथ तत्परम् ।
विन्यस्य देवान् ब्रह्मादीन् श्वेततण्डुलधारया ॥ १२९ ॥
आराध्य गन्धपुष्पाचैर्भुवनाधिपतिं जपेत् ।
देवताभ्यो बलिं दत्त्वा तत्तन्नाम्ना यथाविधि॥ १३० ॥
स्थपतिः कलशान् न्यस्य पञ्च पञ्च सलक्षणान् ।
सुगन्धोदकसम्पूर्णान् पञ्चरत्नसमायुतान् ॥ १३१ ॥
ससूत्रान् वस्त्रकूर्चाला(न्) सापिधानान् सहेमकान् ।
उपपीठांशदेवानां स्वस्वनाम्नाभिधाय च ।। १३२ ॥
प्रणवादिनमोन्तेन गन्धाद्यैरर्चयेत् क्रमात् ।
प्रक्षाल्य पञ्चगव्यस्तु नवरत्नकुशोदकैः ॥ १३३ ॥
इष्टकाश्च यथाकीलं सूत्रैरावेष्टयेत् क्रमात् ।
कुम्भस्य दक्षिणे शुद्धशालीस्थण्डिलमण्डले ॥ १३४ ॥