पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०७
अष्टादशोऽध्यायः।।।

एवंलक्षणसम्पन्नं विमानं सम्पदा पदम् ।
करालमुद्गीगुल्माषकल्कचिक्कणसावयाः॥९२ ॥
चूर्णोपयुक्ताः पञ्चैते सर्वकर्मसनातनाः।
अभयाक्षबीजमात्रशर्करास्वाधंचूर्णकाः॥ ५३॥
मुद्गबीजसमा क्षुद्रशर्करा मुद्गमिष्यते।
सार्धत्रिपादद्विगुणकिञ्जल्कसिकतान्वितम् ॥ ९४॥
चूर्णस्य शर्कराशुक्त्योर्यद् गुल्मासं तदुच्यते ।
करालं चापि मुद्गीं च तेन मानेन योजयेत् ॥ ९५ ॥
पूर्वोक्तमात्रसिकताचणकश्शूर्णमानतः ।
क्रियार्थ पेषितं कल्कं चिक्कणं मस्तु केवलम् ॥ ९६ ॥
निश्छिद्रामिष्टमानेन गोत्रमिष्टकया दृढम् ।
पूर्वोक्तानां च पञ्चानां विधातव्यं पृथक् पृथक् ॥ ९७ ।।
तत्र तत्र तदुक्तेन द्रव्येण परिकल्पयेत् ।
केवलेनाम्भसा पूर्व पूर्वास्त्रिस्त्रिः प्रकुट्टयेत् ॥९८ ॥
क्षीरद्रुमकदम्बाम्राभयाक्षत्वग्जलैः पुनः।
त्रिफलोदैस्ततस्तद्वन्माषयूषैस्ततस्तथा ॥ ९९ ॥
संयम्य शर्कराशुक्तिं चूर्ण तत् खातवारिणिं।
खुरसङ्कुट्टनं कृत्वा स्रावयित्वाथ वाससा ॥१०० ॥
कल्कं च चिक्कणं तेन कल्कनीयं विचक्षणैः।
दधिदुग्धमाषयूषगुडाज्यकदलीफलैः॥ १०१ ॥
जलैश्च नालिकेरस्य चूतपक्करसैः सह ।
कल्पितं शिल्पिभिर्यत् तद् बन्धोदकमिति स्मृतम् ॥१०२ ।।