पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०६
मयमते।।।

तत्कर्ण पत्रमकरं मण्डितं चावलम्बितम् ।
अधकर्णेन चार्ध वा यथायुक्ति यथारुचि ॥ ८१ ।।
अन्तर्गतलुपातिर्यगग्रबन्धनविष्टकम् ।
तदूर्ध्वं तेन निर्विद्धं स्थूपिकायूपमिष्यते ॥ ८२ ॥
पूर्वोक्तं स्थूपिकामानमलङ्कारमथोच्यते ।
सार्धमधं तदाऽर्धमर्धमंशं शरांशकम् ॥ ८३ ॥
अंशमध च भागं स्यादर्धमंशं तथार्धकम् ।
भागमध तथाधीशमंशमध तथाधकम् ॥ ८४ ॥
चतुरर्ध क्रमेणैवोत्तुङ्गे द्वाविंशदंशके ।
पद्मं च क्षेपणं वेत्रं क्षेपणं पङ्कजं घटम् ॥ ८५ ॥
पङ्कजं क्षेपणं धृक् च क्षेपणं वेत्रमूर्ध्वतः ।
क्षेपणं धृक् च कम्पं तु पद्मं फलकमम्बुजम् ॥ ८६ ॥
वेत्रं च मुकुलं चैव क्रमेणोक्तवशान्नयेत् ।
सप्तद्व्यंशत्रिकद्व्यंशैः पश्चनन्देन्द्रियत्रिकैः ।। ८७ ॥
द्वित्रिवेदत्रिकांशैर्गुणपञ्चर्तुपञ्चभिः ।।
द्वित्रिभागैः क्रमाद् व्यासं मूलपद्मादिषु न्यसेत् ॥ ८८ ।।
मुकुलाग्रमंशमर्धार्ध यथाशोभवशान्नयेत् ।
चतुरष्टद्विरष्टाधे साधारं वर्तुलं तु वा ॥ ८९ ॥
तदाकृतिः शिरश्छन्दमलङ्कारवशात् तु वा।
तदाकृतिः सुरोर्वीशविप्राणां च विशां मतम् ॥ १० ॥
सुरहिजनृपाणां तु वैश्यानां नैव शूद्रके।
तत्सम्बन्धं समापाद्य ध्वजदण्डं तदूर्ध्वगम् ॥९१ ॥