पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०५
अष्टादशोऽध्यायः।।।

वलक्षस्वस्तिधाराभिः शिखरान्तरलक्रियात् ।
विस्तारो मुखपद्याश्च दण्ड्यो वाध्यर्ध एव वा ॥ ७० ॥
नीप्रं षडष्टभागं वा कर्णिकोच्चं तु तत्ततिः ।
शक्तिध्वजस्य मूलस्य विपुलं दण्डमानतः ॥ ७१ ॥
तत्कण्ठं तावदेवोच्चं सपादं सार्धमेव वा ।
ग्रीवान्तगग्रपत्रं तु स्तम्भव्यासार्धतुङ्गवत् ।। ७२ ॥
द्विदण्डादित्रिदण्डान्तमन्तरं गग्रपत्रयोः ।
वाताहतचलच्चारुलतावत् कर्णिकाक्रिया ॥ ७३ ॥
अर्धकर्णमधस्तस्माच्छिरोऽर्धार्धेन चानतिः।
ग्रीवोपरि कपोलान्तं त्रिदण्डं सार्धमेव वा ॥ ७४ ॥
तावच्छक्तिध्वजान्तं स्यात् सपत्रं वा सशूलकम् ।
नेत्रसंश्लिष्टमल्लं तु चूलिकास्तनमण्डलम् ॥ ७५ ॥
शयितस्थितपट्टाभ्यां मृणाल्यादिविभूषितम् ।
अर्धकर्णोपट्टोर्ध्वप्रत्यूचे मुष्टिबन्धनम् ॥ ७६ ।।
यथाशोभननिष्क्रान्तं त्रिमुखं स्यात् तदूर्ध्वनः।
शूलाभं मतलाभं वा सव्यालं वा सनाटकम् ॥ ७७ ॥
तदूर्वे कूटकोष्ठादिमण्डितं स्याद् विमानवत् ।
सपट्टक्षुद्रकम्पाङ्गं मध्यतोरणमेव वा ॥ ७८ ॥
तोरणाभ्यन्तरे लक्ष्मीः साभिषेकाम्बुजासिका ।
एवंविधैरथान्यैश्च मण्डनीया ललाटिका ॥ ७९ ॥
ललाटवंशसंविडमध्यशूलदृढीकृता ।
स्तम्भविस्तारविस्तीर्णा विधातव्या कुठारिका ॥ ८० ॥