पृष्ठम्:मयमतम् TG Sastri 1919.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०४
मयमते।।।

दण्डिकोत्तरवलयस्थितसूत्रसमं लिखेत् ।
उदरायाममध्ये तु लिखिते ककरं भवेत् ॥ ५९॥
घटिकाललाटमध्यं ककरं च समं यथा ।
तथा निधाय घटिकां लुपोदरवशायताम् ॥ ६० ॥
तल्ललाटकृतिच्छेद्या वलयाद्या लुपोदरे ।
इष्टपाश्र्वे क्षिपेच्छायां छिद्रैश्च वलयस्य तु ॥ ६१ ॥
तत्तद्धटिकया तत्तन्मध्यसंहितमध्यया ।
या ललाटगतच्छाया तासां तासां तु सा भवेत् ॥
दण्डिकावलयछिद्रस्तनजानूत्तरादिषु।
शिरोमध्येऽर्धमध्ये च न्यसेन्मुण्डतुलोपरि ॥ ६३ ।।
विटभागशिखोपेततुलापादः सवंशह(म् ? त्)।
सवर्णा मत्स्यबन्धाश्च खजूरपत्रसन्निभाः ॥ ६४ ॥
स्वलयक्षो(?) विधातव्या लुपाः शिखरकान्तरे ।
लुपोर्चे फलकं वोवें तस्याः कम्पं निधाय च ॥
इष्टकासुधया वापि प्रच्छादनमलतियात् ।
स्थूपिकाकलिदीर्घ चैवोक्तोत्सेधसमं मतम् ॥ ६६ ॥
अर्धार्धमग्रविस्तारं दण्डा) मूलविस्तृतम् ।
आशङ्खमूलमुण्डान्तं तस्य मूलस्य वेधनम् ॥ ६७ ॥
वंशाधस्तान्निधातव्या मण्डनागाग्रपट्टिका ।
बालकूटस्तनं शङ्खमूलमुण्डकमेव च ॥ ६८ ।
अन्तःस्थवलयं वर्णपट्टिका च सनालिका ।
मत्स्यबन्धनखर्जूरपत्रमल्लनिबन्धनात् ॥ १९॥