पृष्ठम्:मयमतम् TG Sastri 1919.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०३
अष्टादशोऽध्यायः।।।

क्रियायां परलेखास्तु कल्प्याः षोडशसंख्यया ।
कुक्षिव्यासाष्टभागेकं मात्रामानमिति स्मृतम् ॥ ४८ ॥
तेन भागेन सप्तार्धाद् यर्धभागविवर्धनात् ।
आपञ्चदशसंख्यान्ताः परलेखास्तु षोडश ॥४९॥
लुपाधऊर्ध्वबिन्दादि मध्ये विन्यस्य तद्विधिम् ।
तद्विन्द्वादिविलोक्या हि परलेखा विचक्षणैः ॥ ५० ॥
प्रासादानामिमाः प्रोक्ता गृहादीनां च षोडश ।
लुपायामाद्याहिगुणं तन्मानं तेन बुद्धिमान् ॥ ५१ ॥
कोष्णीषासनसूत्राभ्यामधः शफरमालिखेत् ।
तस्मादुपरि मल्लस्य लेवयेत् तद्विचक्षणः ॥ ५२ ॥
मल्लायतादधोभागे त्रिःपञ्चांशीकृतेः क्रमात् ।
तत्तदंशावसानं तु मत्स्यं तत्तत् समुल्लिखेत् ॥५३॥
सर्वासां परलेरवानां कमोऽयं परिकीर्तितः ।
पाञ्चालादिलुपानां च प्रत्येकं प्रोच्यते बुधैः ॥ ५४॥
ऋजाकार्ययुता मल्लाद् या लेखासनकाग्रयोः ।
मध्ये परं हि सा प्राज्ञैः परलेखा प्रकीर्तिता ॥ ५५ ॥
लुपाबाहुल्यमानेन घटिकां चतुरश्रिकाम् ।
वितरस्त्यायामिनीमृज्त्री कृतमध्यमसूत्रिताम् ॥ ५६ ॥
चूलिकान्तर्वर्णलुपातिर्यक्सूत्रस्वमध्यमात् ।
विन्यस्य घटिकां पश्चाच्छिन्नां शमनसूत्रवत् ।। ५७ ।।
प्रतिवर्ण तु घटिकां तहणे तां निधापयेत् ।
क्षिप्तसूत्रस्य शेषांशच्छिन्ने वर्णलुपोदरे ॥ ५८ ॥