पृष्ठम्:मयमतम् TG Sastri 1919.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१००
मयमते।।।

देवानां प्रथितान्येव पाषण्ड्याश्रमिणामपि ।
चतुरश्रं च वृत्तं च षडश्राष्टाश्रमेव च ॥ १५॥
हादशाभं द्विरष्टाशं पद्मकुबलसन्निभम् ।
तथामलकपक्काभं दीर्घवृत्तं च गोलकम् ॥ १६ ॥
अष्टा(र्गष्टध ? द्यष्टाष्टधा)राणि हादीनां शिरांसि हि ।
षडाधाषष्टिकर्ण च सम्मतं शिखराकृतिः ॥ १७ ॥
तदुच्छ्यचतुष्पञ्चभागं स्यात् पद्मतुङ्गकम् ।
तत्समोच्चत्रिभागा वा तवें स्थूपिकायतिः ॥ १८ ॥
अल्पीयसी शिरोर्धा वा भागोच्चा वा त्रिभागिके ।
सक्षेपात् स्थूपिकाभूषा ह्युपरिष्टात् प्रकाश्यते ॥ १९ ॥
पश्चाधकादशान्ताश्च चतुराद्या दशान्तकाः ।
चतुर्विधा लुपासङ्ख्या देवेऽदेवे निकेतने ॥ २० ॥
पूर्वोक्तं यन्तरोच्चं तु व्यामिश्रं नाम पुष्करम् ।
ऊर्ध्वस्थान्यप्यधस्थानि पुष्कराण्यर्धमानतः ॥ २१ ॥
अर्धमारभ्य संवर्त्य पश्चादुक्तोञ्चसीमयुक् ।
आरोह्याण्यवरोह्याणि गुह्यमेतदुदाहृतम् ॥ २२ ॥
दण्डिकावधि कारार्ध चतुरश्रीकृतं समम् ।
कोष्णीषासनसीमाख्यसूत्रयुक्तं खलं नयेत् ॥ २३ ॥
दण्डिकोत्तरबाहुल्यं सूत्रयेदासनादधः ।
आसने चतुरंशाधादशांशं बिन्दु विन्यसेत् ॥ २४ ॥
कोष्णीषसन्धेस्तहिन्दुसीमच्छायोच्चमावहेत् ।
छायोञ्चायतमानानि कमूलादासने न्यसेत् ॥ २५ ॥