पृष्ठम्:मयमतम् TG Sastri 1919.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०१
अष्टादशोऽध्यायः।।।

तान्येव दण्डिकादीनां पर्यन्तानि भवन्ति हि ।
कोष्णीषसङ्गात् पर्यन्तबिन्द्वन्तं तल्लुपायतम् ॥ २६ ॥
तत्तत्पर्यन्तविस्तारं कसूत्रे विन्यसेत् पुनः ।
स्वस्वकर्णगतच्छायामानैः सर्वान् विमानयेत् ॥ २७ ॥
तत्तत्पर्यन्तसूत्राणि मल्लपर्यन्तसूत्रवत् ।
एवं मध्यलुपासीम्नो वर्धन्ते वर्णसंख्यया ॥ २८ ॥
एवमावर्त्त ? ) तत्पश्चादारोदैवावरोह्य च ।
तत्तत्पुष्करसञ्जातं तत्तन्मल्लायतं विदुः ॥ २९ ॥
समध्यं च विमध्यं च लुपाकलनमेव हि ।
मध्यं च मध्यकर्ण चाप्याकर्णमनुकोटिकम् ॥ ३० ॥
कोटिरित्येवमुच्यन्ते पञ्च वर्णलुपाः क्रमात् ।
युग्मांशेऽयुग्मसंख्याभिरयुग्मे युग्मसंख्यया ॥ ३१ ॥
कान्तान्तरासिकोष्णीषसीमान्तं स्वांशसंख्यया ।
चूलिका भ्रमणीया हि समयासमया च सा ॥ ३२ ॥
तत्तत्सूत्रात् स्थितादन्तस्तनसूत्राणि सूत्रयेत् ।
शयितसूत्रादधः पृष्ठवंशसूत्राणि सूत्रयेत् ॥ ३३ ।।
शयितस्थितसूत्रान्तः कीलं तत्कूटमूर्धनि ।
निधायार्धेन्दुवत् सर्वाश्चूलिका विलिखेत् समाः ॥ ३४ ॥
लुपाविलुपमध्यान्तर्गता सा चूलिकाकृतिः ।
एवं स्याद् ऋजुकार्य हि तथा कुक्कुटपक्षवत् ॥ ३५ ॥
बालकूटस्य विस्तारस्थितसूत्रस्तनान्तरे ।
कूटमध्यमसुत्रं तु वलयच्छिद्रमध्यगम् ॥ ३६॥