पृष्ठम्:मयमतम् TG Sastri 1919.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९८
मयमते।।।

पुंस्त्रीनपुंसकमहीरुहसन्धिकार्ये
 पुंसा च पुविहितमेव तथैव पुंस्त्री।
नैवोभयेन च नपुंसकसङ्गमः स्या-
 ज्जात्यैकया शुभद उक्तविधिक्रमं वा ॥१०॥
एवं युक्त्या द्रव्यसन्धानयोगं
 प्रोक्तं नृणां तैतिलानां निवासे ।
युक्त्या युक्तं सम्पदामास्पदं तद्
 युक्त्यायुक्तं सर्वसम्पत्क्षयं स्यात् ॥ ६१ ।।
छिद्रं स्वल्पतरं विधेयमधुना दीर्घान्वितच्छेदनं
 स्थूलं काष्ठशिलेभदन्तमुदितं निम्नं हि पक्केष्टकम् ।
पक्कं निर्गमनं सुधाभिरनिशं कुर्यात् तनुत्वं यथा-
 पूर्व मानसमुन्नयेत् तदपरं शिल्प्युत्तमः शातधीः॥

इति मयमले वस्तुशास्त्रे सन्धिकर्मविधानो नाम

सप्तदशोऽध्यायः ।


अथाष्टादशोऽध्यायः ।

गलभूषणमेतेषां शिरश्छन्दमथाधुना ।
लुपामानं च वक्ष्येऽहं स्थूपिकालक्षणं क्रमात ॥१॥
वेदिकाद्विगुणोत्सेधं कन्धरं शिखरोदयम् ।
तद्वित्रिगुणतुङ्गं बा वेदिकोच्चं तु वा गलम् ॥ २॥
गर्भभित्तित्रिभागैकमऽवैद्यधिवेशनम् ।
ग्रीवावेशं ततस्तावदेवं देवे च मानवे ॥ ३ ॥