पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९१
षोडशोऽध्यायः।।

युग्मायुग्माधिभिः कम्पैर्युतं तुङ्गे च वैपुले।
गवाक्षं कुञ्जराक्षं च नन्द्यावर्तमृजुक्रियम् ॥ ५६ ॥
पुष्पखण्डं सकर्ण च योजितव्यं यथोचितम् ।
दीर्घाश्रं कर्णकच्छिद्रं तद् गवाक्षमिति स्मृतम् ॥ ५७ ।।
युग्माश्रं कर्ण(ग? क)च्छिद्रं कुञ्जराक्षमिति स्मृतम्।
पञ्चसूत्रमयच्छिद्रं प्रदक्षिणवशात् कृतम् ॥ ५८ ॥
नन्द्यावर्ताकृतिवशान्नन्द्यावर्तमिति स्मृतम् ।
स्तम्भतिर्यग्गतं कम्पमृजुत्वात् तदृ जुक्रियम् ॥ ५९॥
पुष्पखण्डं सकर्ण च नन्द्यावर्त तथाच्यते ।
भित्तिमध्याद् बहिस्तस्य स्तम्भयोगं कवाटयुक् ॥६॥
कवाटयुगलं वैकं घाटनोहाटनक्षमम् ।
पादवर्गे भवेद् ग्रीवावर्ग वातायनम्थितिः ॥ १॥
गुलिकाजालकं धामविन्यासाकृतिरन्ध्रकम् ।
स्वस्तिकं वर्धमानं च गर्वतोभद्रसन्निमम ॥६२॥
द्रुमोपलेष्टकाद्रव्यैर्युक्त्या युञ्जीत बुद्धिमान् ।
जालकं फालकं कुङ्यभेष्टकं च त्रिधा मतम् ॥ ६३ ।।
जालकं जालकैयुक्तमिष्टकामयमष्टकम् ।
फालकं फलकोपेतं भिन्तिमध्येऽङ्घिसंयुतम् ॥ ६४ ॥
भित्तिबन्धनमूर्ध्वाधःपद्मसङ्घपट्टिकम् ।
पादपादषडष्टांशबहला फलका भवेत् ॥ ६५ ॥
शिबिकाकुड्यवद् वाथ सर्वत्र फलकामयम् ।
एतत् तु फलकाकुड्यं यत्तु यत्र यथोचितम् ॥ ६६ ॥