पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९०
मयमते

इष्टका (भिः) पिधातव्या शेषं पूर्ववदाचरेत् ।
पङ्गयष्टभागविकलं हि मसूरकोच्चा-
 मञ्चोन्नतं मतम(धो?थो) तलिपार्धकं वा ।
यावद् बलं विपुलसुन्दरतां समेति
 तावद् विधेयमधुना विधिना विधिज्ञैः ॥ ४८ ॥
मधुघृतदधिदुग्धं मापयूषं च चर्म
 कदलिफलगुलं च त्रैफलं नालिकेरम् ।
क्रमवशमनुभागैर्वधित लब्धचूर्ण
 शतमथ कृतमस्य हैगुणं शर्करास्तु ॥४९॥
हस्तस्तम्भतुलादिकान् नरगृहे युञ्ज्यादयुग्मं यथा
 युग्मायुग्मकसव्यया सुरगृह युजीत हस्तादिकान् ।
मध्ये द्वारमनिन्दितं सुरमहीदेवक्षितीशालय
 शेषाणामुपमध्यमेव विहितं तत् सम्पदामास्पदम् ॥
प्रतरुपरि वेदिः स्यात् साहित्यध्रिणोदयम् ॥५१॥
हौ पट चत्वारि कम्पानि पादपादधनानि च।
पद्मशैवलपत्रादिचित्राङ्गा वेदिका मताः ॥ ५२ ।।
कम्पाधस्तात् प्रयोज्या हि स्तम्भारतत्रैव युक्तितः ।
ऊर्ध्वाधः कम्पवत् पद्मपट्टिकं चाग्रबन्धनम् ॥ ५३॥
वेदिकोपरि (लो ? यो)ज्यानि जालकानि विचक्षणैः।
त्यक्त्वा भित्त्यध्रिमध्यं तु चतुर्दण्डान्तविस्तृतम् ॥५४॥
हिदण्डादिनिजव्यासद्विगुणं तुङ्गमीरितम् ।
सार्धम यूनकं वोच्चं त्यक्त्वा मध्याधिरन्ध्रकम्॥५५॥