पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८९
षोडशोऽध्यायः।।

त्रिचतुप्पञ्चदण्डेन दीर्घ तत् साग्रनालिकम् ।
सव्यालाग्रं सम्भृतानं पावाङ्गस्थतरङ्गवत् । ३७॥
वलीकं स्याद् वलीकोर्ध्व कर्तव्या वर्णपट्टिका ।
दण्डार्धिविशालोच्चा निश्छिद्रं स्यात् तदन्तरे ॥
फलकैच तदूचे तु दण्डोत्सधा तुला स्थिरा ।
त्रिपादविस्तृता न्यस्ता प्रवेशानुगता शुभा ॥ ३९ ।।
तुलाविस्तारतारोच्चा जयन्ती स्यात् तुलोपरि ।
अर्धदण्डेन तत्रोच्चा जयन्त्यूव॑ऽनुमार्गकम् ॥ ४० ॥
तदृा फलका पादपादपड़भागतीबकाः ।
इष्टकाचूर्णसङ्घातप्रस्तरस्तम्भविस्तरम् ॥ ४१ ॥
करालमुद्गिगुल्मासकल्कचिकणकर्मवान्।
उत्तरं वाजनं चैव तत्पार्थानुगतं भवेत् ॥ ४२ ॥
तुला द्वारानुयाता हि जयन्ती तिर्यगागता ।
अनुमार्ग तदूर्ध्वं तु हारस्यानुगतं शुभम ॥ ४३ ।।
हारतिर्यग्गता बाथ तुला देवनृपेशयोः ।
त्रिदण्डं वा द्विदण्डं वा स्याद् वलीकतुलान्तरम् ॥ ४४ ॥
द्विदण्डं सार्धमध्यर्ध जयन्त्यन्तरमिप्यते ।
दण्डान्तरमनुमार्ग निश्छिद्रं स्यात् तदूर्ध्वतः ॥ ४५ ॥
अथ चित्रविकल्पाङ्गा विधेया प्रस्तरक्रिया ।
क्षुद्राणां तु तुलादीनि यथा स्थैर्य तथाचरेत् ॥ ४६ ॥
विरूपं वा सरूपं वा सर्वमङ्गं प्रयोजयेत् ।
तुलाद्रव्योपरिष्टात् तु फलकाच्छादनं तु वा ॥ ४७ ॥