पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९२
मयमते

तदेव तत्र योज्यं स्याद् वस्तुविद्याविचक्षणः ॥ ६६ ॥
 एवं प्रोक्तं प्रस्तरं वेदिकाङ्गं
  युक्त्या तज्ज्ञैर्जालकं च त्रिकुड्यम् ।
 नैवच्छेद्या वेदिका जालकार्थं
  न प्रत्यङ्गं सर्वतश्छेदनीयम् ॥ ६७१ ॥

इति मयमते बस्तुशास्त्रे प्रस्तर करणं नाम

पोडशोऽध्यायः ।


अथ सप्तदशोऽध्यायः ।

पार्श्वगस्थितशयितद्रव्याणां सन्धिरुच्यते ।
एकस्मिन् वस्तुनि द्रव्यबहुभिश्च निघनात ॥ १ ॥
दुर्बलत्वाद् द्रुमाग्राणामवले बलवर्धनात ।
सन्धिकर्म प्रशम्नं स्यात म जातीयैर्वग्गुमैः ॥ २ ॥
मल्ललीलं तथा ब्रह्मगजं वै वणुपर्वकम् ।
पूकपर्व देवसन्धिर्दण्डिका पड़विधाः स्मृताः ॥ ३ ॥
चतुर्दिक्षु बहिः स्थित्वा निर्गक्ष्य स्थपतिहम् ।
दक्षिणादक्षिणे दीर्घादीर्घाभ्यां सन्धयेत् क्रमात् ॥ ४ ॥
मध्ये च दक्षिणे चैव यः सन्धि कतमीहते।
मध्येऽतिदीर्घ युञ्जीयाद् दीर्घमल्पं च पूर्ववत् ॥ ५॥
वामेऽवामे समद्रव्यं मध्य दीर्घमथापि वा।
मध्यद्रव्यं बिना वामेऽवाम द्रव्यं समं तथा ॥ ६ ॥