पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८६
मयमते

स्वस्तिकं वर्धमानं च नन्द्यावर्तसमाकृतिः ।
सर्वतोभद्रवृत्तिर्वा प्रत्युत्तरनिवेशनम् ॥ ४॥
त्रिभागैकं चतुर्भागं वाजनं निर्गमोद्गमम् ।
चतुरथ सपर्णाग्रं तदूधै मुष्टिबन्धनम् ॥ ५ ॥
तुलाच्छेदेन वा कुर्यात् पृथग्वा वाजनोपरि।
स्तम्भार्धविपुलं स्वार्ध तीव्र पट्टाम्बुजक्रियम् ॥ ६ ॥
सनालिकमधस्तात् तु वाजनाद् दण्डनिर्गमम् ।।
मूलाग्रयोः शिखोपेता तदूचे तु प्रमालिका ॥ ७ ॥
स्तम्भव्याससमोच्चा वा त्रिचतुर्भागतीबका।
कुम्भमण्डियुताग्रा च हस्तिमुण्डकसन्निभा ॥ ८ ॥
दण्डिकासमनिष्क्रान्ता तवं दण्डिका भवेत् ।
स्तम्भाविपुला स्वार्धतीबा नीवार्धनिष्क्रमा ॥ ९ ॥
मुष्टिबन्धसमाकारचतुरश्रा यथा तथा ।
यथेष्टविपुलोत्तुङ्गं तत्तुङ्गसमवेशनम् ॥ १० ॥
वलयं स्यात् तदृर्श्वे तु गोपानं वा तव॑तः।
मुष्टिबन्धविशालोचा पट्टिकाक्षेपणाम्बुजा ॥११॥
छित्त्वार्पितावाशष्टा तु दण्डिकोपरि पट्टिका ।
तस्यां छित्त्वा तु तन्मानं गोपानं चार्पयेद् बुधः ॥ १२॥
उत्तरान्तावलम्बं वा यथायुक्ति यथारुचि।
वाजनोधै तुलोचे वा गोपानं योजयेद् बुधः ॥ १३ ॥
तुलान्तरसमं गोपानान्तरं प्रविधीयते ।
गोपानदण्डिको चेद् वाजनान्तावलम्बनम् ॥१४॥॥