पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८७
षोडशोध्यायः ।।

दण्डाविपुलं स्वार्ध तीव्र गोपानमूर्ध्वतः ।
कम्पं समान्तरं कुर्याद वलयछिद्रमन्तरे ॥ १५॥
दण्डिकावाजनान्तस्थं कायपादं यथांशकम् ।
पादविस्तारमर्धार्धनिष्कान्तं साग्रपट्टिकम् ॥ १६ ॥
पादानामन्तरं छाद्यं फलकैः सारदारुजैः।
अष्टांशबहलं छन्नफलकाच्छाद्यमूलतः ॥ १७ ॥
गोपानस्योपरिष्टात्तुच्छादयेल्लोहलोष्टकैः ।
कपो(ल? त)पालिकोत्सेधनिष्क्रान्तं द्वित्रिदण्डकम् ॥१८॥
एकहस्तं द्विहस्तं बा क्षुद्रे महति मन्दिरे।
यथाशोभं यथाचित्रं कपोते कर्णपालिका ॥१९॥
तथा मध्यस्थिता वापि सोधे शैले समाहिता ।
विधेया वाजनस्योर्चे भूतहंसादिकाव(लम् ?लिः)॥२०॥
दण्डोच्चा वा त्रिपादोच्चा वाजनं पूर्ववद् भवेत्।
कपोतालम्बनं तत् स्याद् दण्डार्ध वा(थ)दण्डकम् ॥२१॥
अध्यर्धादित्रिदण्डान्तं कपोतोचविर्निगतम् ।
वसन्तकं वा निद्रा वा विधे(वा ? या)वाजनोपरि ॥२२॥
त्रिपादोच्चा तदृवं स्यात् कपोतोचं तु पूर्ववत् ।
एवं स्याद् दृढकलप्यं तच्छिलयेप्टकमात्रकैः ॥ २३॥
यथाप्रयोगं स्थैर्य तु तथा योज्यं विचक्षणः ।
कपोतोञ्चत्रिभागं वा पादं वा क्षुद्रनिप्कृतिः ॥
कपोते नासिका क्षुद्रे नौवो() स्थितकर्णिका ।
सपाददण्डा बाध्यर्ध द्विदण्डं विस्तृता स्थिता ॥ २५ ॥