पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६.गुप्तबिन्दुः]
५७
मन्दारमरन्दचम्पूः ।

कर्मगुप्तं यथा--

[१]शंकरः कुरुताच्छ्रीमान्भक्तस्य मम ते सदा ।
निजाश्रितकदम्बस्य निलिम्पविटपोपमः ॥ १० ॥

        अत्र 'शम्' इति ।

[२]मनोजस्य परीहासैरारामे राधया तया ।
अहारि गोपकान्तानां रासक्रीडामहोत्सवे ॥ ११ ॥

        अत्र 'मनः' इति ।

अन्ये भेदाः पूर्ववत् ।

इति कर्मगोपनम् ।

संबन्धगुप्तं यथा--

[३]बालेवयस्य मुद्युक्ता मुखमालोकसे सदा ।
तमद्य कामसंतप्तं गाढालिङ्गनसंभ्रमैः ॥ १२ ॥

        अत्र 'यस्य' इति ।

पूर्ववदन्ये भेदाः ।

 पदगुप्तं यथा--

[४]नालंकृतकुलं क्रूरं विहरन्तं सरस्तटे ।
दुद्राव दूरतो दृष्ट्वा चक्री भीतियुतो जवात् ॥ १३ ॥

        अत्र 'नकुलम्' इति ।

[५]यामध्यमं च सुकृतं लेभे त्वत्तः पुरा नृपः ।
अद्य धत्ते स्मरार्ता सा [६]नवं कवचमाकुलम् ॥ १४ ॥

        अत्र 'सुतं, कचम्' इति च ।

'इदमेवार्थगुप्तम्' इति केचित् ।



 
  1. 'ते करः' इति योजना.
  2. अजस्य कृष्णस्य
  3. 'हे बाले,यस्य मुखमालोकसे ते
    कामसंतप्त गाढालिङ्गनविभ्रमैरेव' इति योजना
  4. 'नकारेणालंकृतः कुलशब्दो यत्र त
    नकुलम्' इति बोध्यम्.
  5. मध्यमेन 'कृ' इत्यनेन रहितमध्यमम्
  6. नास्ति वकारो यत्र, अर्थात् वकाररहितम्.