पदार्थोभयगुप्तं यथा--
[१]सनिषिद्धोऽप्यगराजः कुचोपमायां पुनश्च गतिवण्योः (?) । |
अत्र सनिषिद्धो निषेधवाचकनकारयुक्त इत्यर्थगोपनम्, 'नागराजः' इति पदगोपनं च । अत्र क्रियागुप्तवद्भेदा बोध्याः ।
कर्तृकर्मोभयगुप्तं यथा--
नारीनाशोदयद्धूलीपालीपिहितपूषणि ॥ |
अत्र 'ना, अरीन्' इति ।
भावगुप्तं यथा--
मारनाराचनिर्भिन्नमानसा मत्तकाशिनी । |
अत्र 'चन्द्रोत्पत्तिहेतुत्वात्' इति भावः ।
जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन । |
इति श्रीमद्घटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणश्चन्द्रदेवनाम्नश्च कवेः कृतौ मन्दारमरन्दे चम्पूप्रबन्धे गुप्तबिन्दुः षष्ठः समाप्तिमगमत् ।
पूर्वार्धः समाप्तः ।
नर्तनबिन्दुः ।
अत्र नर्तनबिन्दौ तु वक्ष्ये रूपकलक्षणम् । |
- ↑ कुचोपमाया निषिद्धोऽपि सोऽगराजः पर्वतः पुनश्च गतिवर्णनाया नकारयुक्तोऽगराजो नागराजो गजो योग्योऽभूत्.