पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६.गुप्तबिन्दुः]
५५
मन्दारमरन्दचम्पूः ।

करचन्द्रो भूमिशक्तिः शक्तिवार्धिर्हनूरसः ।
भूमिदन्ती शक्तिमुनिर्मकरालयकन्यका ॥
अत्र वीथीबोधिकाद्या संख्यान्या गृहबोधिका ।
संख्यापर्यायकथनं शेषबिन्दौ भविष्यति ॥
घोटीगतिक्रमादेवं चतुरङ्गगृहेषु च ।
निरन्तरं लघुगुरूण्यक्षराणि न्यसेद्यथा---॥

पपापपापपापपापपापपापपापपा
पपापपापपापपापपापपापपापपा ।
पपापपापपापपापपापपापपापपा
पपापपापपापपापपापपापपापपा ॥ १४ ॥

 पञ्चचामरप्रमाणिकासमानिकोपचामरवृत्तैः पञ्च श्लोका भवन्ति । दण्डपार्श्ववर्तुलकोणघोटीगत्याद्याकारभेदेनानेके भेदा ऊह्याः । एवं मयूरक्षीरहारबन्धादयोऽपि ॥

जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन ।
गुहपुरनिलयेन प्रोद्धृतो बन्धबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥

 इति श्रीमद्धटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणश्चन्द्रदेवशर्मणश्च कृतौ मन्दारमरन्दे चम्पूप्रबन्धे बन्धबिन्दुः पञ्चमः समाप्तिमगमत् ।



गुप्तबिन्दुः ।

अधुना गुप्तबिन्दौ तु क्रियादेर्गोप्यगुम्फनम् ।
निरूप्यते समासेन विबुधानन्दवृद्धये ॥
भङ्गश्लेषाद्युपायेन क्रियादेर्गोपनं भवेत् ।
अथवा चरणान्तादिष्वक्षराणां निवेशनात् ॥

तत्र क्रियागुप्तं यथा--

गृहद्वारगतस्यास्य पुंसः कामार्तचेतसः ।
विलासैर्गणिकां सख्यो वित्ताकर्षणनिर्भराम् ॥ १ ॥

          अत्र 'वित्त' इति ।