पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४
काव्यमाला ।

चामरबन्धो यथा--

मारसारतरस्फारफातिभारं परं सुरम् ।
सीतानेत्रचकोरेन्दुबिम्बं वन्दे रमेश्वरम् ॥ १० ॥

मर्दलबन्धो यथा--

मारसापरसापारामापारापरसापसा ।
मवरापवरामायामामायापवरावरा ॥ ११ ॥

रथबन्धो यथा--

पादाहितगुणा मान्ति यस्य चित्ते कलावतः ।
महिलानन्ददं कान्तं तं भजे सततं हरिम् ॥ १२ ॥

गोमूत्रिकाबन्धो यथा--

भजे राधावरं कञ्जमुखं भक्तरुचिव्रतम् ॥
व्रजे बाधाहरं कुञ्जसुखं व्यक्तशुचिस्मितम् ॥ १३ ॥

अथ चतुरङ्गचक्रबन्धो निरूप्यते--

नाडीरामोऽब्धिभूर्नेत्रदृग्भूवर्णोऽग्निकन्यका ।
भूरसोऽङ्घ्रिजो वार्धिवाजी सायककन्यका ॥
कर्मस्वरः सिद्धिगजो नदीशत्रुर्गजाम्बुधिः ।
तर्करामः पापचन्द्रो नदीनेत्रं शरानलः ॥
कारकेन्दुर्दन्तिनेत्रं मुनिवार्धी रमारसः ।
मुनिलक्ष्मीः पाण्डवार्वा प्रश्नकाव्यं युगे रसः ॥
मूर्तिगन्धश्चन्द्रमुनिर्नेत्रबाणो युगाम्बुधिः ।
मूर्तिर्नेत्रं चन्द्रचन्द्रो नेत्रमूर्तिः क्षमाशरः ॥
बाहुद्वीपो वार्धिलक्ष्मीः कालतर्कोऽङ्घ्रिसागरः ।
भूमिनेत्रं कालचन्द्रो वार्धिकालो बलाम्बुधिः ॥
कन्याकुचो द्वीपचन्द्रो गजशक्तिर्नदीशरः ।
लक्ष्मीमुनिस्तर्कलक्ष्मीः कन्यातर्को नदीमुनिः ॥
कन्यालक्ष्मीर्बलबलं गजकन्या नदीगुणः ।
लक्ष्मीचन्द्रस्तर्कनेत्रं कन्यावार्धियुगद्वयम् ॥