पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८०
काव्यमाला ।

अत्रार्थप्रत्ययद्वारेणोपमायाश्च या मतिः ।
अभिधालक्षणाभिन्ना व्यञ्जनैवात्र कारणम् ॥
अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते ।
संयोगाद्यैर्विवक्ष्यार्थधीकृद्व्यापृतिरञ्जनम् ॥
संयोगो विप्रयोगश्च साहचर्यं विरोधिता ।
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥
सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः ।
शब्दार्थानेकतायां चेद्विशेषस्मृतिहेतवः ॥
संयोगस्तु स्ववाच्यैकनिष्ठार्थान्तरसंनिधिः ।
पुङ्खयत्यधिकां लक्ष्मीं शङ्खचक्रधरो हरिः ॥ ५५ ॥
विप्रयोगस्तु संयोगाभाव एव निगद्यते ॥
अशङ्खचक्रः स हरिरपिनाको भवो भवान् ।
साहचर्यं स्ववाच्यैकवस्तुनः सहचारिता ।
वन्दारुजनमन्दारौ रामकृष्णौ नमाम्यहम् ॥ ५६ ॥
सहानवस्थितिर्वध्यहन्तृत्वं च विरोधिता ॥
दिनं निशां च संयुध्य रामोऽजैषीद्दशाननम् ।
अर्थः प्रयोजनं स्थाणुं संसारच्छित्तये भजे ॥
विदुः प्रकरणं वक्तृश्रोतृबुद्धिस्थितं बुधाः ।
जानाति सकलं देवः प्रश्नोऽयं वितथोऽधुना ॥
लिङ्गं स्ववाच्यान्तरेभ्यो व्यावृत्तो धर्म इष्यते ।
जय्यो जगति केनैष कुपितो मकरध्वजः ॥
सामानाधिकरण्यं यन्नियतार्थपदे हि तत् ।
शब्दान्तरस्य सांनिध्यं देवोऽव्यात्त्रिपुराहितः ॥
सामर्थ्यं स्यात्कारणत्वं मत्तोऽयं मधुना पिकः ।
औचित्यन्वययोग्यत्वं गच्छत्यारुह्य सैन्धवम् ॥
देशः पुरादी राजात्र नगरे राजते मुहुः ।
कालो निशादिस्तामस्यां चित्रभानुर्विराजते ॥