पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११.शेषबिन्दुः]
१८१
मन्दारमरन्दचम्पूः ।

पुंलिङ्गादिर्भवेद्व्यक्तिर्मित्त्रो भात्युदयं गतः ।
उदात्तादिः स्वरादिः स्यादिन्द्रशत्रो इति श्रुतौ ॥
यतोऽर्थधियमुत्पाद्य शाब्दोऽर्थान्तरबुद्धिकृत् ।
ततोऽर्थो व्यञ्जकः शब्दसहकारितया मतः ॥
वाच्यलक्ष्यव्यङ्गभेदादर्था ये त्रिविधा मताः ।
तेषामपि व्यञ्जकत्वमधुना प्रतिपाद्यते ॥
वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसंनिधेः ।
प्रस्तावदेशकालादेर्वैशिष्ट्यात्प्रतिभाजुषाम् ॥
योऽर्थस्यान्यार्थधीहेतुर्व्यापारो व्यञ्जनैव सा ।
अस्तंगतोऽद्य सविता पथिक क्व प्रयास्यसि ॥
इत्यादौ वक्तृवैशिष्ट्यज्ञानाद्रत्यभिलाषधीः ।
प्रातश्चेन्नाथ को दोषः श्रान्तोऽसि स्वपिहि क्षणम् ॥
अत्र बोद्धव्यवैशिष्ट्याद्वक्तृकोपः प्रतीयते ।
सखि श्रुत्वापि मामेवं नानुतापमुपैति सः ॥
इत्यादौ काकुवैशिष्ट्यज्ञानाद्व्यङ्ग्यार्थनिश्चयः ।
स्वप्नेऽपि नास्मरः प्राड् मां भाग्येनाद्यागतोऽसि मे ॥
इत्यादौ वाक्यवैशिष्ट्यज्ञानाद्व्यङ्ग्यार्थनिश्चयः ।
शून्या प्रपेयमेकाकिन्यस्मि पान्थास्यतां क्षणम् ॥
इत्यादौ वाच्यवैशिष्ट्यज्ञानाद्व्यङ्ग्यार्थनिश्चयः ।
एकाकिन्येव यास्यामि जलार्थं कथमापगाम् ॥
इत्यादिषु व्यङ्ग्यबुद्धिर्वैशिष्ट्यादन्यसंनिधेः ।
वयस्ये प्रतिवेशिन्याः पतिरद्य समागतः ॥
अत्र प्रस्ताववैशिष्ट्यज्ञानाद्व्यङ्ग्यार्थनिश्चयः ।
सख्यो दूरं गता गन्तुमक्षमाहमिह स्थिता ॥
इत्यादौ देशवैशिष्ट्यज्ञानाद्व्यङ्ग्यार्थधीर्मता ।
गृहकृत्यव्यापृताया विश्रामोऽद्यैव मे सखि ॥
इत्यादौ कालवैशिष्ट्यज्ञानाद्व्यङ्ग्यार्थनिश्चयः ।