साक्षी मुकुन्दकेलीनां यमुनायामयं व्रजः ॥ ५१ ॥
स्वसिद्धये पराक्षेपे त्वजहल्लक्षणा मता ।
वीक्ष्यानुद्रवतः कुन्तान्द्रवन्ति च्छत्त्रिणो रणात् ॥
स्वार्थैकदेशवृत्तौ तु जहत्यजहती मता ।
पुष्पितं वनमालोक्य सोऽयं पान्थः स्मराहतः ॥ ५२ ॥
सारोपोपात्तविषयिविषयाभेदबोधिनी ।
सारोपा द्विविधा सा तु गौणी शुद्धेति भेदतः ॥
सादृश्यात्मकसंबन्धरूपा गौणीति कीर्तिता ।
अन्या तदन्यसंबन्धरूपा शुद्धेति कीर्त्यते ॥
मुखेन्दुर्नयनानन्दस्तन्व्या विजयतेतराम् ।
निगीर्य विषयं यत्र विषय्येव निबध्यते ।
तत्र साध्यवसाना स्यात्कविप्रौढोक्तिसंमता ॥
सरोजकाहलीरम्भासैकताकाशभूधरैः ॥ ५३ ॥
शङ्खेन्दुतिमिरैः सृष्टा वल्ली कामिजनोत्सवः ।
संगिरन्ते द्विरेफादौ केचिल्लक्षितलक्षणाम् ॥ ५४ ॥
अत्र व्यङ्ग्यं क्वचिद्रूढमगूढं च क्वचिद्भवेत् ।
फले लाक्षणिकस्यास्य व्यापारो व्यञ्जनेष्यते ॥