पृष्ठम्:मनोहरकाव्यमाला.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १७२ )

वचांसि गूढगर्वाणि विदुन्वन्ति स्मृतानि माम् ॥ २९ ॥
एवं विलपमानं तं राजानं गौतमोऽब्रवीत् ।
तद्गतं नानुशोचस्व समाश्वस परन्तप ॥ ३० ॥
कथितञ्च मया तत्र दृष्ट्वा तस्याः सुलक्षणम् ।
तद्रूपशालिनी बाला राज्ञी भवितुमर्हति ॥ ३१ ॥
सा हि मेनकया जाता चारुरूपा तपस्विनी ।
देवीव नावमानार्हा त्वया राजन् विवाहिता ॥ ३२॥
यद्भूतं महदाश्चर्यं प्रत्याख्यातवति त्वयि ।
तद् दृष्ट्वा के न शोचन्ति वदन्तस्त्वां हतश्रियम् ॥ ३३ ॥
भद्रं वाप्यथवाभद्रं प्रियमप्रियमेव वा ।
यद्गतं तद्गतं राजन् नानुशोचन्ति पण्डिताः ॥ ३४ ॥

शेष उवाच-

विमृषत्स्वेव तेष्वेव देशान्तरचरश्चरः ।
राज्ञे निवेदयामास यद् दृष्टं सागराम्भसि ॥ ३५॥

चर उवाच-

राजन् सांयात्रिको नाम्ना धनवृद्धिर्महाबलः।
विपन्नः सागरे सप्त वाहयन् सम्भृतास्तरीः ॥ ३६ ॥
स चानपत्यस्तस्येष्टा नावो रत्नेन पूारताः ।
तवैव कोषमर्हन्ति गृह्यतामचिरेण ताः ॥ ३७ ।।

राजोवाच-

यान्तु मे मन्त्रिणः सम्यग्जानन्तु तत्परिग्रहान् ।
यदि काचिद्भवेद्भार्या गर्भिणी वाणिजः क्वचित् ।
सैव तद्धनमादद्यान्नाधिकारी तदा नृपः ॥ ३८॥
तच्छ्रुत्वा मन्त्रिणो गत्वा विज्ञाय च विशेषतः ।
राज्ञे निवेदयामासुर्वृत्तान्तं ब्राह्मणर्षभ ॥ ३९ ॥
अत्रैव नगरे राजन् भार्या तस्य विलासिनी ।