पृष्ठम्:मनोहरकाव्यमाला.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १७३ )

अन्तःसत्त्वा वणिक्पुत्री वर्तते च पतिव्रता ॥ ४० ॥
राजा प्राह तरीस्थानि यानि यानि धनानि च ।
तानि तस्यै ददत्वद्य भटा मे यान्तु सत्वराः ॥ ४१ ॥
इति प्रस्थाप्य राजेन्द्रो भटांस्तद्धनरक्षणे ।
द्विगुणेनैव शोकेन दह्यते स्म ततोऽब्रवीत् ॥ ४२ ॥
समाप्यन्त एवमेव मम राज्यस्य दुर्गतिः ।
कं यास्यति महीयं हि धार्मिकं वाप्यधार्मिकम् ॥ ४३ ॥
अन्तःसत्त्वा महाभागा या सा भार्याप्युपस्थिता ।
उपेक्षिता प्रमादेन मन्दभाग्येन सा मया ॥ ४४ ॥
अत ऊर्ध्वं मया दत्तं पानीयं विधिनापि च ।
पास्यन्ति पितरः कोष्णनिश्वासेन मलीमसम् ।
पिण्डविच्छेददुःखार्ताः पिण्डानि च तथैव हि ॥ ४५ ॥
क्व लभ्यते सा ललना साक्षाच्छ्रीरिव रूपिणी ।
न मन्दभाग्यं पापिष्ठं ज्ञात्वा मां पुनरेष्यति ॥ ४६ ॥
नैवं विधस्य दुष्टस्य दारुणस्य दुरात्मनः ।
तथाविधा वरारोहा भार्या भवितुमर्हति ॥ ४७ ॥
एवं विलपमानस्य दुष्यन्तस्य महीपतेः।
व्यतीयुस्त्रीणि वर्षाणि शोचतोऽहर्निशं द्विज ॥ ४८ ॥


स्वीकरणम् ।

अथासौ देवराजेन समाहूतो ययौ दिवम्।
त्रिदिवेशैरवध्यानां निधनाय सुरद्विषाम् ॥ १ ॥
निर्वाह्य देवताकर्म रथं मातलिसारथिम् ।
आरुह्य भुवमायास्यन् मारीचाश्रममभ्ययात् ॥ २ ॥
तत्रकाचिज्जरा नारी ब्राह्मणी बालमद्भुतम् ।
लालयन्ती नृपं वीक्ष्य ददावासनमन्तिके ॥ ३ ॥