पृष्ठम्:मनोहरकाव्यमाला.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १७१ )

निश्वस्य दीर्घमुष्णञ्च अश्रुमिश्रमभाषत ॥ १६ ॥
प्रत्याख्याता वरारोहा मन्दभाग्येन यन्मया ।
तदद्य मां दुनोत्येवमङ्गुरीयस्य दर्शनात् ॥ १७ ॥
तया यदुक्तं मां प्राप्य मम तेजो दधानया ।
नानृतं तत्र वै किञ्चिन्मयैवानृतकं कृतम् ॥ १८ ॥
मृगयाचारिणारण्ये सैव कण्वाश्रमे मया ।
गान्धर्वेणैव धर्मेण निर्बन्धेन विवाहिता ॥ १९ ॥
उषितञ्च तया सार्धं प्रतिज्ञातञ्च सर्वथा ।
बलेन चतुरङ्गेन नयिष्ये नगरं प्रति ॥ २० ॥
अभिज्ञानञ्च मे दत्तमेतद्रत्नाङ्कुरीयकम् ।
केनापि दैवयोगेन सर्वं तद्विस्मृतं मया ॥ २१ ॥
हन्त पापं कृतं भूरि मया निष्करुणात्मना ।
आसन्नप्रसवा भार्या त्यक्ता देवसुतोपमा ॥ २२ ॥
अनुकूलो न मे धाता नरकान्न च निष्कृतिः।
प्रतिज्ञापूर्वकं पाणिगृहीता यद्विवर्जिता ॥ २३ ॥
श्री रूपिणी समागत्य स्वयमेव कृपान्विता।
अर्पयन्ती महारत्नं यथा केनापि वर्ज्य॑ते ॥ २४ ॥
तथा मया पुत्रफला परा साध्वी पतिव्रता ।
याचमाना सवैयग्र्यं दूरादेव विवर्जिता ॥ २५ ॥
मेनकाप्सरसा जाता विश्वामित्रसुता सती ।
कण्वेन पालिता कन्या चारुशीला तपस्विनी ॥ २६ ॥
चिन्तामणिरिवायाता काममर्पयितुं स्वयम् ।
मया निराकृतवाला अन्तःसत्त्वा सुलोचना ॥ २७॥
कल्पवल्लीव कामानां संप्रदानेऽभ्युपस्थिता ।
उन्मूलिता मया तन्वी प्रसोष्यन्ती नरोत्तमम् ॥ २८॥
संरम्भारुणनेत्रायाः स्मरवापायितभ्रुवः ।