पृष्ठम्:मनोहरकाव्यमाला.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १६६ )

ययासि हिमवत्प्रस्थे निर्माल्यमिव चोज्झिता ॥ ९२ ॥
स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव ।
विश्वामित्रो ब्राह्मणत्वलुब्धः कामवशं गतः ॥ ९३ ॥
मेनकाप्सरसां श्रेष्ठा महर्षीणां पिता च ते ।
तयोरपत्यं कन्या त्वं पुंश्चलीव प्रभाषसे ॥ ९४ ॥
अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे ।
विशेषतो मत्सकाशे दुष्टतापसि गम्यताम् ॥ ९५ ॥
क्व महर्षिः स चैवोग्रः क्वाप्सराः सा च मेनका ।
क्व त्वमेवं कृपणा तापसीवेशधारिणी ॥ ९६ ॥
सर्व्वमेतत्परोक्षं मे यत्त्वं वदसि तापसि ।
नाहं त्वामभिजानामि यथेच्छं गम्यतां त्वया ॥ ९७ ॥


मेनकागमनम्।

शकुन्तलोवाच-

राजन् सर्षपमात्राणि परच्छिद्राणि पश्यसि ।
आत्मनो विल्वमात्राणि पश्यन्नपि न पश्यसि ॥ १ ॥
मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् ।
ममैवोद्रिच्यते जन्म राजेन्द्र तव जन्मतः ॥ २ ॥
तितावटसि राजेन्द्र अन्तरिक्षे चराम्यहम् ।
आवयोरन्तरं पश्य मेरुसर्षपयोरिव ॥ ३ ॥
महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च ।
भवनान्यनुसंयामि प्रभावं पश्य मे नृप ॥ ४ ॥
सत्यश्च जनवादोऽयं तं प्रवक्ष्यामि ते नृप ।
निदर्शनं ब्रवीमीति न कोपं कर्त्तुमर्हसि ॥ ५ ॥
विरूपो यावदादर्शे स्वमुखं नैव पश्यति ।
मन्यते तावदात्मानमन्येभ्यो रूपवत्तमम् ॥ ६ ॥