पृष्ठम्:मनोहरकाव्यमाला.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १६७ )

यदा तु मुखमादर्शे विकृतं पश्यतात्मनः ।
तदेतरं विजानाति स्वमेव नेतरं नरः ॥ ७ ॥
यस्तु स्याद्रूपसम्पन्नो न स निन्दति कञ्चन ।
अतीव जल्पन् दुर्वाचो भवतीह विकत्थनः ॥ ८ ॥
मूर्खो हि जल्पतां नृणां श्रुत्वा वाचः शुभाशुभाः ।
अशुभं वाक्यमादत्ते पुरीषमिव शूकरः ॥ ९ ॥
प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः ।
गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः ॥ १० ॥
अन्यान् परिवदन् साधुर्यथा हि परितप्यते ।
तथा परिवदन्नन्यान् हृष्टा भवति दुर्जनः ॥ ११ ॥
अभिवाद्य यथा वृद्धान् सन्तो गच्छन्ति निर्वृतिम् ।
एवं सज्जनमाक्रुष्य मूर्खो भवति निर्वृतः ॥ १२ ॥
सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः ।
यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान् ॥ १३ ॥
अतो हास्यतरं लोके किञ्चिदन्यन्न विद्यते ।
यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम् ॥ १४ ॥
सत्यधर्मच्युताप्तुं सः क्रुद्धादाशीविषादिव ।
अनास्तिकोप्युद्विजते जनः किं पुनरास्तिकः ॥ १५ ॥
पुत्रस्ते भविताराजन्नपुत्रस्य महागुणः ।
चक्रवर्ती राजराज उत्तमः सर्वधन्विनाम् ॥ १६ ॥
स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि ।
आत्मानं सत्यधर्मौ च पालयन् पृथिवीपते ॥ १७ ॥
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः ।
वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ॥ १८ ॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेघसहस्रात्तु सत्यमेवातिरिच्यते ॥ १९ ॥