पृष्ठम्:मनोहरकाव्यमाला.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १६५ )

पितुराश्लिष्यतेऽङ्गानि किमस्त्यभ्याधिकं ततः ॥ ८० ॥
वरं प्रसूय पुत्रं ते विधाय च सुखं तव ।
गमिष्यामि महाराज कण्वस्य पितुराश्रमम् ॥ ८१ ॥
अण्डानि विभ्रति स्वानि न भिन्दन्ति पिपीलिकाः ।
न भरेथाः कथं नु त्वं धर्मज्ञः सन् स्वमात्मजम् ॥ ८२ ॥
न वाससां न रामाणां नापां स्पर्शस्तथाविधः ।
शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः ॥ ८३ ॥
ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठश्चतुष्पदाम् ।
गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः॥ ८४ ॥
स्पृशतु त्वां समाश्लिष्य पुत्रो मे प्रियदर्शनः ।
पश्चादहं गमिष्यामि पितुरेवाश्रमं प्रति ॥ ८५ ॥
आहर्ता वाजिमेधस्य शतसंख्यस्य पौरव ।
भविता तनयस्तेऽयमित्याह मां गुरुर्मुनिः ॥ ८६ ॥
मृगावकृष्टेन हि ते मृगयां परिघावता ।
अहमासादिता राजन कुमारी पितुराश्रमे ॥ ८७ ॥
उर्वशी पूर्ध्वचित्रिश्च सहजन्या च मेनका ।
विश्वाची च घृताची च षडेवाप्सरसां वराः ॥ ८८ ॥
तासां मां मेनका नाम ब्रह्मयोनिर्वराप्सराः।
दिवः संप्राप्य जगतीं विश्वामित्रादजीजनत् ॥ ८९ ॥
स मां हिमवतः प्रस्थे सुषुवे मेनकाप्सराः ।
अवकीर्य च मां याता परात्मजमिवासती ॥ ९० ॥
किं नु कर्माशुभं पूर्वे कृतवत्यस्मि जन्मनि ।
यदहं बान्धवैस्त्यक्ता वाल्ये संप्रति च त्वया ॥ ९१ ॥

दुष्यन्त उवाच-

असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः
मेनका निरनुक्रोशा बन्धकी जननी तव ।