पृष्ठम्:मनोहरकाव्यमाला.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १६३ )

कल्याणं वद साक्ष्येण मात्मानमवमन्यथाः ॥ ५६ ॥
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चौरेणात्मापहारिणा ॥ ५७ ॥
एकोऽहमस्मीति च मन्यसे त्वं
 न हृच्छयं वेत्सि मुनि पुराणम् ।
यो वेदिता कर्मणः पापकस्य
 यस्यान्तिके त्वं वृजिनं करोषि ॥ ५८॥
मन्यते पातकं कृत्वा न कश्चिद्वेत्ति मामिति ।
विदन्ति चैनं देवाश्च स्वस्यैवान्तरपूरुषः ॥ ५९ ॥
आदित्यचन्द्रावनिलोऽनलश्च
 द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च सन्ध्ये
 धर्मोऽपि जानाति नरस्य वृत्तम् ॥ ६० ॥
यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् ।
हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति ॥ ६१ ॥
न तु तुष्यति यस्यैव पुरुषस्य दुरात्मनः ।
तं यमः पापकर्माणं निर्यातयति दुष्कृतम् ॥ ६२ ॥
योऽवमन्यात्मनात्मानमन्यथा प्रतिपद्यते ।
न तस्य देवाः श्रेयांसो यस्यात्मापि न कारणम् ॥ ६३ ॥
स्वयं प्राप्तेति मामेवं मावमंस्थाः पतिव्रताम् ।
अर्ञ्चार्हां नार्ञ्चयसि मां स्वयं भार्यामुपस्थिताम् ॥ ६४ ॥
किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि ।
न खल्वरण्ये रुदितमस्तु मे शृणु भाषितम् ॥ ६५ ॥
यदि मे याचमानाया वचनं न करिष्यसि ।
कण्वशापेन ते मूर्धा शतधैव फलिष्यति ॥ ६६ ॥
पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः ।